________________ घोषदर्शनम् सम्भवन्ति / तं प्रति पस्पशरूपत्वात्तथाविधानां विभावानामिति / शृङ्गारित्वनिश्चयाभावे सत्स्वपि तथाविधेषु विभावेषु लीलादयोऽनुभावा न कथञ्चिदिह व्यज्यन्त इति यत्नेन प्रतिपाद्याः / अथ प्रतिकूलविभावादिग्रहः इति / इह हि अलक्ष्यक्रमव्यङ्गयस्य ध्वनेः प्रबन्धात्मनो रामायणमहाभारतादौ प्रकाशमानस्य प्रसिद्धस्यैव यथावत् प्रकाशनप्रकारजातं, 5 विभावभावेत्यादिना प्रतिपाद्यविरोधिरसेत्यादिना तद्विरुद्धं सहृदयचक्रवर्तिना यत् प्रकाशितं तदुपजीव्य प्रतिकूलविभावादिग्रहादय इमे दोषाः केचिदनेन काव्यप्रकाशकारेण प्रदर्शिताः। तथाहि-प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं, तस्य व्यञ्जकत्वे ये निबन्धनप्रकारास्ते क्रमेणैवोपयोगिनः / पूर्वं हि कथापरीक्षा, तत्राधिकावाः, फलपर्यन्ततानयनं, रसप्रतिजागरणमित्यादि / तत्र प्रथमं तावन्निबन्धनम् / यथा 10 "विभावभावानुभाव-सञ्चायॊचित्यचारुणः / विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा" / यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः सञ्चारी वा तदौचित्यचारुणः कथाशरीरस्य विधिरिति शृङ्गारवर्णनेप्सुना हि तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेविभावस्य लीलादेरनुभावस्य हर्षधृत्यादेः सञ्चारिणः स्फुट 15 एव सद्भाव इति / तत्र विभावौचित्यं तावल्लोके भरते च प्रसिद्धमेव / भावौचित्यं तु प्रकृत्यौचित्यात् / तच्च प्रकृतिविपर्यये रसदोषे दर्शयिष्यते / अनुभावौचित्यमपि भरतादौ प्रसिद्धमेव / इयत्तूच्यते / लक्षणज्ञत्वं लक्ष्यपरिशीलनम् अदृष्टप्रभावोदितस्वप्रतिभाशालित्वं चानुसतव्यम् / तथाहि-भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धान् वा पर्यालोचयता 20 स्वप्रतिभा वा अनुसरता कविना अवहितचेतसा भूत्वा विभावाद्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः / औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत् प्रतिपादयति यदितिहासादिषु रसवतीषु कथासु विविधासु सतीष्वपि यत्तत्र विभावाद्यौचित्यवत् कथाशरीरं तदेव ग्राह्यम् / नेतरत् / / रसवतीषु इति अनादरे सप्तमी। रसवत्त्वं चाविवेचकजनाभिमानाभिप्रायेण मन्तव्यम् / 25 विभावाद्यौचित्येन हि विना का रसवत्तेत्यर्थः / वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् / तत्र ह्यनवधानात् स्खलतः कवेव्युत्पत्तिसम्भावना महती भवति / न हि तत्र इतिहासवशाद् एवं मया निबद्धमिति जात्युत्तरमपि सम्भवति / परिकरश्लोकश्चात्र 1. -ग्रहेत्यादयः इमे ख. ग. // 2. मुक्तकः // 3. ध्वनौ / / 4. प्रक्षेपः //