________________ दोषदर्शनम् अपि तु साध्यं रात्रिभोजनं प्रमेयं कुक्षावनुप्रवेश्यैव पीनत्वदिनाधिकरणभोजनाभावयोर्विशेषणविशेष्यभावप्रतिपत्तिः / अतोऽत्र गर्भीकृतार्थान्तरः पदार्थान्वयः / / ननु पदार्थान्वयपूर्वकोऽर्थान्तरस्वीकारः / तेनास्यामर्थापत्तौ प्रमेयानुप्रवेशिता / सा चेयमर्थापत्तिः केवलव्यतिरेकानुमानरूपतया कणादादिभिरङ्गीकृता / अत्र हि साध्याभावस्य साधनाभावेन याऽसौ व्याप्तिः साऽन्यथाऽनुपपत्तिः / सैव च व्यतिरेकः / तेन च व्यतिरेकेण साध्यसिद्धिराक्षिप्यते / पूर्व चोक्तम् " तथाऽनग्नावधूमेन व्याप्ते धूमस्ततच्युतः / अनन्यत्रावकाशत्वाद् व्याप्यते ध्रुवमग्निना" / / इति / एवं च व्यतिरेकेणैवात्र साध्यसिद्धेराक्षिप्तत्वादन्वयस्यानुपयोगः' / अन्वयस्यादृष्टेः इति / यथा दीप्रदीपा निशेति वक्ष्यमाण उदाहरणे / अत्र हि अन्वयः सम्भवन्नपि येन न दृष्टस्तं प्रत्येतस्योदाहरणता / असम्भवाच्च इति / यथा पीनो देवदत्तो दिवा न भुङ्क्त इति / अत्र हि पीनत्वस्य दिनाधिकरणभोजनाभावविशिष्टस्य हेतोर्यत् साध्यं रात्रिभोजनं तस्य दिनाधिकरणभोजनाभावविशिष्टं पीनत्वं स्वहेतुं प्रति यदनुवर्तकत्वमनुयायित्वं तत् यत्र धूमस्तत्रावश्यमग्निरितिवत् दृष्टान्तधर्मिणि न प्रसिद्धम् / अत इदानीमेव पूर्वमप्रतिपन्नस्य साभ्यस्य रात्रिभोजनस्य देवदत्तलक्षणधर्मिनिष्ठतया प्रतीतिर्भवतीति पूर्वप्रसिद्धान्वयाभावः / तदिदमुक्तं द्वयोरभावाद् इति / अन्वयस्याभावाद् द्वयमत्र यतो नास्ति / व्यतिरेक एवैको विद्यत इत्यर्थः / व्यतिरेकसद्भावमेव दर्शयति-अन्यथा-इत्यादिना / दीपदीपा निशा इति / केनचित् पुरुषेण दीप्रदीपतामत्यन्तभासुरदीपतां दृष्ट्वा निशायाश्चिरकालापवृत्तदिवाकरधामाभावविशिष्टस्य कालविशेषस्य निशाशब्दवाच्यत्वान्न दिवाकरापवृत्तिमात्रं साधयितुं युक्तम् / एवं सति धर्मप्रतिपत्तिकाले एव साध्यस्य प्रतिपन्नत्वाद् हेतोरानर्थक्यं स्यात् / तेन चिरकालतयाऽपवृत्तिविशेषणीया / प्रमाणान्तरेण च दिवाकरभावाभावापरिज्ञाने इदमनुमानम् / जलदपटलच्छन्नासु दिक्षु न ज्ञायते किमस्तमितो रविन वेति प्रदीपप्रभाप्रसरेणानुमीयते रवेश्चिरकालापवृत्तिः / एतच्च सर्वमभिप्रेत्येदमुक्तम्-हेतुः प्रदीपदीमत्वम इत्यादि / ननु प्रदीपदीप्रत्वस्य चिरतरकालापवृत्तरवित्वेन निशान्तरेषु व्याप्तेः प्रतिपन्नत्वादन्वयस्याभावोऽत्रासिद्ध इत्याशङ्कयोक्तम्-अत्र यद्यप्यन्वयव्यतिरेको स्तः इत्यादि। यः पुरुष आदित्यसत्तायाः प्रदीपप्रभया विरोधं प्रतिपद्यते इति / आदित्यसत्तायाः इति / चिरतरकालापवृत्तरविकत्वस्य साध्यस्याभाव उक्तः / प्रदीपप्रभया विरोधं पति 1. -नुपगमः ग // 2. प्रदीपतां ग. // 3. धर्मि-ग. // 4. सह //