________________ कल्पलताविवेके पद्यते इति / प्रदीप्रदीपत्वस्य साधनस्याभावोऽभिहितः / अत्र च प्रदीपप्रभया विरोधमेवेत्येवकारार्थोऽध्याहर्त्तव्यः / तेन यः साध्याभावस्यैव साधनाभावेन व्याप्ति प्रतिपद्यते, न तु / साधनस्य दीप्रदीपत्वस्य साध्येनादित्याभावेनेत्यर्थः संपद्यते / सोऽज्ञानो दोषः इति असिद्धत्वमित्यर्थः / ततो हि साध्यस्य ज्ञानं नास्ति / इमे दोषाः इति / इत्थमेव समासो युक्तः / ये पुनरज्ञानं च संशयज्ञानं च विपर्ययश्चेति समस्य तान् कुर्वन्तीत्यज्ञानसंशयज्ञानविपर्ययकृत इति व्याचक्षते, तेषामज्ञानस्य ज्ञानप्रागभावस्यानुत्पाद्यमानत्वात्तत्करणविरोधः / ननूपमानमेवास्त्विति / उपमाने खलु बिम्बप्रतिबिम्बोपन्यासो दृष्टः / चन्द्र इव मुखमित्यत्र मुखस्य बिम्बता, चन्द्रस्य तु तत्प्रतिबिम्बत्वम् / दृष्टान्तेऽपि च तनुरियं क विलोचनहारिणीत्यादौ बिम्बप्रतिबिम्बभावो विद्यते, तत्कथमुपमायामन्तर्भावोऽस्य न स्यादित्यर्थः / उपमायां हेतुलिङ्गम् इत्यादि / अनेन हेतुशब्दस्योपमालक्षणवृत्तित्वमत्र दर्शयति / लक्षणं हि लक्ष्यं सजातोयविजातीयव्यवच्छेदेनावगमयल्लक्ष्यस्यावगतौ हेतुतां प्रतिपद्यते। अतो हेतुशब्देनाभिधीयते / लीनलक्ष्यस्वरूपावगतिनिबन्धनत्वाच्च हेतुशब्दपर्यायेण लिङ्गशब्देन तस्य व्यपदेशः / तच्च लक्षणं केवलयतिरेकिलिङ्गरूपतया कणादादिभिरङ्गीकृतम् / तथाहि-उपमालक्षगम्___“यच्चेतोहारि साधर्म्यमुपमानोपमेययोः” इत्यादिनोपमानोपमेययोः साधर्म्यक्तम् / तच्चोपमामलङ्कारान्तरेभ्यो दीपकादिभ्यः सजातीयेभ्यो विजातीयेभ्यश्च काव्यस्वरूपनित्यानित्यदोषगुणशब्देविशेषेभ्यः केवलयतिरेकिलिङ्गरूपतया व्यवच्छिनत्ति / ___न चैवविधं लक्षणं तनुरियं क विलोचनहारिणी इत्यादौ दृष्टान्ते विद्यते / तनुतापसयोयथाक्रमं नवमालिकाकुशगुगाभ्यां सहोपमानोपमेयभावस्याशाब्दत्वात् / न खल्वत्र चन्द्र इव मुखं शस्त्रीश्यामेत्यादिवदुपमानोपमेययोः उपमितिक्रियांप्रति करगत्वं कर्मत्वं च शाब्दम् / यथा हि चन्द्र इव मुखमित्यत्र इवशब्दमाहात्म्याचन्द्रमुखयोरुपमितिक्रियाकरणत्वकर्मत्वे प्रतीयते / शस्त्रीश्यामा देवदत्तेति च समाससामर्थ्यात्तयोः प्रतिपत्तिः / न तु तद्वत्तनुरियं क विलोचनहारिणीत्यत्र उपमानोपमेयभावः शाब्दः / केवलार्थसामर्थ्यनिबन्धनत्वात् / तेन शब्दसामर्थ्यावसेयोपमानोपमेयभावत्वस्योपमालक्षणस्याविद्यमानत्वादुपमाहेतोरुपमालक्षणस्यानभिधानमिति दृष्टान्तस्योपमातः पृथग्भावेनाभिधानम् / तदुक्तम् ___ "इवादेरप्रतीतापि शब्दसंस्कारतः कचित् / - उपमा गम्यतेऽन्यत्र केवलार्थनिबन्धना" / / इति / 1. सम्बद्ध // 2 शब्दालङ्कार // 3. दीपकादौ //