________________ 68 - कल्पलताविवेके सामान्येन सकललोकविषयतयेन्द्रियशत्र्यादीनां जेयत्वादिनिरन्तरेणाभिधाव्यापारेण स्वीकृतम् / न चैतदुपपद्यते सर्वेषां जितेन्द्रियत्वाद्यभावात् / अतोऽत्र मुख्यः शब्दार्थो बाधित इति सामान्येन विशेषो लक्ष्यते / स च विशेषः प्रत्यासन्नत्वात् प्रयोक्तनिष्ठतयैव लभ्यते / तेन इति वक्त्रा / सर्वम् इति / इन्द्रियशत्रुजयम् , अरिनिराकरणं, धनदानं चेति / किंशब्दस्तु यद्यपि क्षेपविषयः इति / किंशब्दस्तावत् प्रश्नविषयत्वेन दृष्टः / किं करोति देवदत्तो व्याचष्टे इत्येवमादौ / स च सम्भवन्त्यां गतावनेकार्थस्यान्याय्यत्वान्निन्दायां लक्षणया प्रयुज्यते / प्रश्नविषयस्य यदपरिज्ञायमानाभिजनत्वादिनाऽरोचमानत्वं वस्तुनस्तादृश्यरोचमानत्वे निन्द्यमानं वस्तु किंशब्देन गोचरीक्रियते / इह च किमिन्द्रियद्विषां जेयमित्यत्र योऽसौ जेयविषयः संरम्भ उद्योगात्मा स किंशब्देन लक्षणावृत्या निन्द्यते / इन्द्रियद्विषां जेयविषयं संरम्भं निन्दाम इत्यर्थः / निन्दा च परिहर्त्तव्यस्य वस्तुनः क्रियते इति संरम्भपरिहारस्यात्रार्थादवगतिः। ततोऽपि च सौकर्यमवगम्यते / एवं को निराक्रियतेऽरिभिरित्यादावनुसन्धेयम् / पक्षधर्मतामन्तरेणापि इत्यादि / यद्यपि पक्षधर्मता स्वकण्ठेन नोपात्ता तथाऽप्यर्थसामर्थ्यात् प्रतीयमानां पक्षधर्मतामाश्रित्य, काव्यहेतोः स्वसाध्यावगतिनिबन्धनत्वमभिधातुं शक्यत एव / यथाऽर्थान्तरन्यासे अर्थान्तरसामर्थ्यादवगम्यमानयोरन्वयव्यतिरेकयोन खल्वर्थान्तरन्यासे स्पष्टयैव गत्या, यत् कृतकं तदनित्यमित्येवमन्वयव्यतिरेको प्रदश्येते / अर्थसामर्थ्यात्तु तयोरवगतिः / अन्यथा समर्थकत्वायोगात् / तत्समाश्रयेण चार्थान्तरन्यासस्यानवस्थानात् / एवमिहाप्यर्थसामर्थ्यादवगम्यमाने पक्षधर्मत्वे गमकत्वं न विरुध्यते / साध्याश्रयधर्मिधर्मत्वविरहेऽपि इति / वनाभोगस्य धर्मिणो न धर्मः कुररविरावो न च कमलसौरभम् / शब्दो हि जन्यजनकभावेन कुरराणाम् , आश्रयाश्रयिभावेनाकाशस्य / निराश्रयो वा / गन्धोऽपि समवायेन कमलानां, संयुक्तसमवायेन पवनस्येति / यथाऽभ्रं कथम् इति / न केवलमुदाहृतविषय एव पक्षधर्मत्वावगमहानिर्यदप्येतन्मूर्धाभिषिक्तमनुमानं धूमादग्निप्रत्यय इति / तदपि दृष्टान्ततया व्याचष्टे / ___ अपृथकृतसाध्योऽपि इत्यादि / क्वचित् खलु साधनप्रतीत्युत्तरकालभावित्वेन साध्यस्य प्रतिपत्तिः / यथा धूमाद् वह्निसंप्रत्ययः / तत्र हि धूमस्य प्राक् प्रतिपत्तिः पश्चाद् वह्नः / कचित्तु साध्यगर्भीकारेणैव साँधनं प्रतीयते, न तु पूर्वप्रतीतात् साधनात् साध्यस्य प्रतिपत्तिः / यथा पीनो देवदत्तो दिवा न भुङ्क्ते इति / अत्र हि दिनाधिकरणभोजनाभावेन सह पीनत्वस्य पूर्व विशेषगविशेष्यभावे प्रतीते, पश्चात् साध्यं रात्रिभोजनं न प्रतीयते / 1. -मादेव गम्य-क. // 2. समर्थकत्वायोग / / 3. हेतुः //