________________ दोषदर्शनम् "शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितम् / तैदभावः क्वचित्तावद्गुणवद्वक्तृकत्वतः // तद्गुणैरपकेष्टानां शब्दे सङ्क्रान्त्यसंभवात् / वेदे वक्तुरभावाच्च दोषाशकैव नास्ति नः // " तदेवं प्रतिवादिभिः सर्वज्ञमार्ग नित्यमार्ग वा वेदादेराश्रित्य लोकं यागादिप्रवर्तनेन प्रतार्योपजीवद्भिः प्रतारकैरागमाश्रयो ज्ञानविशेषः प्रवर्तित इति लोकायतिकशावस्थिते न्याये, यस्याप्रतारकपितृपितामहादिव्यवहारदर्शनबलान्निजेन्द्रियादिदर्शनबलाच्च ज्ञानोत्पादः स लोक इति व्याख्यातः। तत्त्वशंसिनः इति / तथास्थितवस्तुप्रतिपादिन इत्यर्थः / तथा च तच्छब्दादुत्पन्नेन भावप्रत्ययेन लोकप्रसिद्धपदार्थनिष्ठा याऽसाविदन्ता सकललोकानुभवगोचरतास्वभावा, तद्वैलक्षण्येनास्मदाद्यपरिज्ञेयविषयत्वमुक्तम् / अत एव सर्वज्ञप्रणीतत्वं नित्यत्वं वाऽलौकिकमाश्रित्य ये तेन लोकाप्रसिद्धेनैव प्रकारेग स्थापितं वस्तु प्रतिपादयन्ति, न तु सकललोकानुभवगोचरेण इदन्ताप्रसिद्धेन, ते आगमास्तथास्थितवस्तुप्रतिपादिन इत्युच्यन्ते / __ भावाभावपक्षयोः इति / भावरूपं गगनं वैशेषिकवैभाषिकादीनाम् / अभावरूपं तु सौत्रान्तिकानाम् / नीरुपत्वाद् इति नीलादिरूपायोगादित्यर्थः / नित्यव्यापिशब्दपक्षे इति मीमांसकपक्षे इत्यर्थः / शब्दसन्तानपक्षे इति / वैशेषिकपक्षे इत्यर्थः / सिन्धूनाम् इति नदीनां प्रसरदूपत्वान्न तु समुद्राणां, तज्जलस्य कथञ्चित् स्थैर्योपपत्तेः / अर्चिषाम् इति ज्वालानाम् / सर्ववादिमते स्थैर्याभावः स्थित एव / / जराम् इति। ययातिना सुतः पूरुः प्रार्थितो वृद्धत्वधारणं प्रतिज्ञाय तथैवानुष्ठितवान् / उपलप्स्ये इति / हनूमता स्वामिशासनेन सीतोपलम्भं प्रतिज्ञाय सीतोपलब्धेति / अर्थसंश्रय-इति / स्वामिनो भार्योपलब्धिरर्थपक्षमेवावलम्बत इत्यर्थाश्रयत्वमुक्तम् / भ्रातुः इति युधिष्ठिरस्य / प्रतिज्ञाभासाम् इति / अनवसरे प्रयोगात् फलवन्ध्यत्वाच्चेत्यर्थः / व्यापारे इति / व्यापारे तस्मिन् वर्तमाने किं प्रतिज्ञया / फल-इति / फले संपन्ने प्रतिज्ञा निष्फलेति भावः / अर्थबांधिनि-इति / अर्थापहारनिमित्तत्वादित्यर्थः। अशक्यत्वेन इति नित्यत्वेनेत्यर्थः / व्यक्तयोऽपि नोच्छेत्तुं शक्यन्त इत्याह-अनवसानतया च इति / किमिन्द्रिय-इति / 1. वेदे // 2. दोषाभावः // 3. शब्दस्य // 4. वक्तृ // 5. अपसारितानां दोषाणाम् / / 1. अर्थाबाधिनीतिक // 7 "अशक्यत्वेन...अनवसानतया च इति' अयं पाठः ग. पुस्तके नास्ति /