________________ 66 . कल्पलताविवेके जनयेत् / जनकस्वभावत्वे तु पूर्वमपि कार्योत्पत्तिप्रसङ्गः / तदेवं सहकारिनिरपेक्षत्वे तावदजनकत्वम्। सहकारिसापेक्षत्वे तु विशेषाऽनाधायिनां सहकारित्वे सर्व सर्वस्य सहकारि स्यात् , विशेषाभावात् / अथ सहकारिणस्तस्य जनकस्य कञ्चन विशेषमादधीरंस्ततो यद्यसौ व्यतिरिक्तो विशेषस्ततस्तस्य न कश्चित् स्यात् / यद्यसौ तस्य व्यतिरिक्तोऽपि तत्सम्बन्धवशात्तस्येत्यभिधीयते, ततः सम्बन्धेऽपि समानश्चर्चः / सम्बन्धस्यापि व्यतिरिक्तत्वे तत्सम्बन्धायोगात् / सम्बन्धान्तराङ्गीकरणे तु अनवस्था / अव्यतिरिक्तस्य तु विशेषस्य सहकारिभिर्जनकनिष्ठस्याधाने स एव जनकः कृतः स्यादिति जनकस्य स्थैर्य व्याहन्यते / तदिदमुक्तम्-नित्यत्वकार्यप्रसवयोर्विरोधाद इति / - भेदेन इति / विवादास्पदधर्मेणेत्यादिना तत्तल्लक्षणकृदभिहितो यः प्रतिज्ञादीनां स्वभावभेदस्तत्समाश्रयतया विचित्रमार्गेण भेदेनेत्यर्थः / प्रयोगान् दोषांश्च क्रमेण व्याचष्टे-उपादेयत्वहेयत्वानि इति / प्रयोगा हि प्रतिज्ञादीनां प्रयुक्तिरूपत्वादुपादेयत्वरूपाः / दोषाणामपि च यानि दुष्टानि प्रतिज्ञादीनि तन्निवृत्तिनिमित्तरूपत्वाद्धेयत्वानीति भावप्रत्ययेनाभिधानम् / एतानि चोपादेयत्वहेयत्वानि लक्षणवशेन व्यवस्थाप्यन्ते, लक्षितस्य रूपस्योपादेयत्वादलक्षितस्य च हेयत्वात् / ज्ञानप्रवाहत्रयस्य इति / तर्कसमुत्थस्य लोकाश्रयस्यागमजन्यस्य चेत्यर्थः / तत्रैवमवस्थिते इत्यादि / तत्रेति यत् श्लोके उपात्तं तद् व्याख्यातम् / एवमवस्थिते इति / तत्र तस्मिन् सति तर्कन्यायस्य विचाराक्षमत्वे इत्यर्थः / तथा च पूर्व प्रत्यक्षादिलक्षणं तार्किकप्रसिद्धमुपन्यस्य दूषितम् / आबालगोपालाङ्गनमविचारितरमणीयतया यः प्रसिद्धः प्रमाणप्रमेयव्यवहारः स एवोपादेय इति दर्शयितुम् / एकस्य इति प्रमातुः / सर्वज्ञमार्ग नित्यमार्ग वा आश्रित्येति यथाक्रमं नैयायिकादिदर्शनस्य मीमांसकाभ्युपगमस्य चोन्मीलनम् / तथाहि-नैयायिकादीनां दर्शने आप्तप्रणीतत्वेन वेदादेः प्रामाण्यं मन्त्रायुर्वेदवाक्यवदभिहितम् / आप्तश्च यथार्थदर्शिवादतीन्द्रियं यागस्वर्गादिसाध्यसाधनभावमभिदधानो नासर्वज्ञो भवतीत्युक्तं सर्वज्ञमार्गमाश्रित्य इति / तदिदमुक्तं “मन्त्रायुर्वेदवच्च तत्प्रामाण्यमाप्तवचनप्रामाण्याद्” इति / एवं चैवंवादिनां मते आप्तप्रणीतत्वेन वेदादेः प्रामाण्यात् परतः प्रामाण्यम्। ये त्वस्मर्यमाणकर्तृकत्वेन कर्तृमत्त्वस्य बाधकस्याभावात् सकललोकजुषमपौरुषेयत्वेन वेदस्य प्रसिद्धिमाश्रित्य स्वत एव वेदस्य प्रामाण्यमाहुर्न तु परत इति, तेषां नित्यमार्गाश्रयेण वेदस्य प्रामाण्यम् / यदाहुः 1. ताभ्यां कारणविशेषाभ्यां सम्बन्धस्यायोगः // 2. रूपाद्धय- ग. //