________________ कल्पलताविवेके तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् / तदसत् परमार्थेन यथा संकल्पितं तया // " भावानाश्रित्य भेदिनः इति / व्यावृत्तानि स्वलक्षणान्याश्रित्य धीरेकार्थप्रतिभासिन्युत्पद्यते / यया स्वरूपेण स्वाकारेणैकेन रूपेण पररूपं परस्परव्यावृत्तं स्वलक्षणं संत्रियते प्रच्छाद्यते / तया धिया किंविशिष्टया, संवृत्या संत्रियतेऽनया स्वलक्षणमिति कृत्वा / संकृतनानात्वाः स्थगितनानात्वाः / स्वयं भेदिनोऽपि केनचिद्रूपेण विजातीयव्यावृत्त्युपकल्पितेन गोत्वादिरूपेणाभेदिन इवाभान्ति संसृष्टा इव / तस्या बुद्धेरभिप्रायवशात् एकाकाराध्यारोपवशात् सामान्यं सदिति प्रकीर्तितम् / बुद्ध्यारोपित एवाकारः सामान्यमुक्तमिति यावत् / यथा तया बुद्ध्या संकल्पितं समारोपितं तथा तत्सामान्यमसत् / परमार्थेन इति / इत्थंभूताच्च सामान्यादन्योऽप्यसौ घटादिः सपक्ष एक इवैकार्थक्रियाकारी चोपचर्यत इत्यर्थः / तथाहि-सैव संवृतिबुद्भिद्देश्यस्वलक्षगगतभेदेतिरस्कारेण प्रवर्त्तमाना तैः स्वलक्षगनिर्विकल्पकविज्ञानद्वारेणोपजन्यत इति तेषां भिन्नानां स्वलक्षणानामेका अर्थक्रिया, तत्कारित्वेन च तानि स्वलक्षणानि एकार्थक्रियाकारीणि / न त्वत्र वाहदोहादिलक्षणा एका अर्थक्रिया / तस्याः प्रतिस्वलक्षणं भिन्नत्वात् / संवृतिबुद्धिस्तु स्वलक्षणगतभेदतिरस्कारादर्थक्रियकेति भगितुं शक्यते / वाहदोहादीनामपि तवारेणैकता / अतश्च संवृतिबुद्ध्यात्मकसामान्यसंश्रयेण साध्यधर्मानुगमात् पक्षसपक्षयोः सादृश्यमुक्तं लक्षणशेष मिति / पूर्वोदाहृतस्य रागादिमत्त्वसाधनायोपात्तस्य वक्तृत्वादेरप्रयोजकस्य हेतोः पक्षधर्मत्वान्वयव्यतिरेका विद्यन्ते / तथाहि-विवादास्पदीभूतेषु पुरुषेषु वक्तृत्वमुपलभ्यत इति पक्षधर्मत्वमस्यास्तीति / रथ्यापुरुषादौ च रागादिमत्वसहचरितं वक्तृत्वं दृष्टमित्यन्वयसद्भावः / कुड्यादौ च रागादिशून्ये वक्तृत्वस्यानुपलब्धेर्व्यतिरेकोऽप्यस्ति / न चैतस्य रागादिमत्त्वादि प्रति गमकत्वं, सांसारिकधर्माभिनिवेशित्वप्रयुक्तव्याप्त्युपजीवित्वेन स्वतस्तस्य रागादिमत्त्वादिव्याप्तिं प्रत्यप्रयोजकत्वात् / अतो यदेतत् त्रैरूप्यं लिङ्गलक्षणमुक्तं तस्यावश्यम्भावेनोपस्कारको लक्षणशेषो वक्तव्यः / तं च दर्शयितुम् “इति द्वयैकानुगतिव्यावृत्ती लक्ष्मसाधुता”इत्युक्तम् / पूर्वोक्तया भङ्ग्या इति अन्वयव्यतिरेकात्मिकयेत्यर्थः / द्वयस्य साध्यस्य हेतोश्च इति / द्वयस्य ग्रहणेन साध्यं हेतुश्च प्रकृतं यथोपदर्शितपाठक्रमोपेततया लक्ष्यत इत्यर्थः / एकत्र हेतौ साध्ये च इति / अनेन एकग्रहणं यथोपवर्णितपाठक्रमहेतुसाध्योपलक्षणायोपात्तमिति दर्शयति। साध्ये इति तु हेतुव्यावृत्त्यन्यथानुपपत्त्या मुख्यार्थवाधायां साध्यशब्देन विपरीतलक्षणया साध्याभावो लक्ष्यते / ये अनुवृत्तिनिवृत्ती इति / साध्यस्य हेतौ अनु 1. भेदे ग // 2. -मत्त्वादिसा- ग. / /