________________ दोषदर्शनम् वृत्तिः / हेतौ सति साध्यस्य सद्भाव एव / यदुक्तम्-"व्यापकस्य तु तत्र भाव एव” इति / तत्र व्याप्ये धूमादौ व्यापकस्य वहन्यादेर्भाव एव न त्वभाव इति व्यापकेन वहन्यादिना व्याप्यस्य धूमादेरयोगो व्यवच्छिन्न इति व्यापकधर्मतया अयोगव्यवच्छेदेन व्याप्तिरुक्ता / तदेवं साध्यस्य हेतावनुवृत्तिरुक्ता / हेतोस्तु साध्याभावे निवृत्तिरेव / यदुक्तम्-"व्याप्यस्य तत्रैव भाव" इति / व्याप्यस्य धूमादेस्तत्रैव वन्यादावेव भावो न तु वन्यादिशून्य इत्यन्ययोगव्यवच्छेदेन व्याप्यधर्मत्वेन व्याप्तिः प्रदर्शिता / एतदेव स्पष्टयति हेतुधर्म-इत्यादिना / न हेतोः साध्येन साहचर्यमात्रमन्वयः किन्तु साध्याविनाभावात्मा यत्र यत्र धूमस्तत्र तत्राग्निरित्येवंरूपो नियमस्वभावः / एवंविधश्च नियमस्वभावोऽन्वयो व्यतिरेकमन्तरेण न प्रकल्प्यते इति आक्षिप्तव्यतिरेकोऽन्वयो द्रष्टव्यः / तथाहि-यदा धूमसत्ता वह्निसत्त्व एव भवति न तु वह्निसत्त्वाभावे तदा वह्निः सत्त्वाभावे धूमसत्त्वाच्च्युतः सन् धूमाभावेन व्याप्यते / यत्र वह्निर्नास्ति तत्र धूमो नास्त्येवेति / तेन नियमात्मनोऽन्वयस्याक्षिप्तव्यतिरेकता / तदुक्तम् 'धूमभावेऽग्निभावेन व्याप्तेऽनग्निस्ततच्युतः / अधूम एव विद्यतेत्येवं व्याप्यत्वमश्नुते // " इति / यथा च नियमात्मनोऽन्वयस्य पूर्वोपदर्शितप्रक्रियया आक्षिप्तव्यतिरेकता तथा व्यतिरेकस्यापि नियमगर्भीकारेण प्रवर्त्तमानस्याक्षिप्तान्वयता द्रष्टव्या / तथा हि यत्र वह्निर्नास्ति तत्र धूमो नास्त्येवेति / यदा वढ्यभावो धूमाभाव एव भवति न तु धूमसद्भावे तदा धूमभावोऽग्न्यभावाच्च्युतः सन् अग्निना व्याप्यते इति व्यतिरेकेण नियमवताऽन्वयस्याक्षेपो लभ्यते / यत्र यत्र धूमस्तत्र तत्राग्निरेवेति / यदुक्तम् "तथाऽनग्नावधूमेन व्याप्ते धूमस्ततश्च्युतः / अनन्यत्रावकाशत्वाद् व्याप्यते ध्रुवमग्निना // " इति / नन्वेवमन्वयव्यतिरेकयोनियमवत्त्वे सत्येकतरोपादानेनैवानुमानस्य कृतकृत्यत्वादुभयोपादानस्य वैयर्थ्यम् / सत्यम् / प्रपञ्चाद्यर्थत्वमुभयोपादानस्य तार्किकैरुक्तम् / तच्च ग्रन्थविस्तरभयान्नेह प्रतन्यते। तदेवं वक्तृत्वादि च स्याद्रागादिमत्त्वादि च न भवेदिति वक्तत्वादेहेतो रागादिमत्त्वादिना आक्षिप्तव्यतिरेकस्यान्वयस्याभावात् / तथा यत्र रागादिमत्त्वं नास्ति तत्र वक्तवाद्यपि नास्तीति व्यतिरेकेणान्वयस्याऽनाक्षिप्तत्वाद्वक्तृत्वादेरप्रयोजकत्वेनाऽगमकत्वमिति स्थितम् / तदिदमुक्तम्-"इति द्वयैकानुगतिव्यावृत्ती लक्ष्मसाधुता" इति / द्वयस्य साध्यस्य हेतोश्च यथाक्रममेकत्र हेतौ साध्याभावे च ये अनुगतिव्यावृत्ती अन्वयव्यतिरेको 1. ग पुस्तके नास्ति // 2. प्रकल्पत ग. // 3. अग्नेरभावः // 4. धूमभावाद् / / 5. धूमस्य // 6. अग्न्यभावात् //