SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् धर्मिणो द्वित्वानुपपत्तेरित्याशङ्कय वक्ष्यति-द्वयोरिति तु स्वयमेव व्याख्यातुमाह इति / अन्वयव्यतिरेकौ इति / अन्वयोऽनुगमः, अन्यत्रापि पक्षसदृशे साध्यधर्मयुक्त विद्यमानता। व्यतिरेकस्तु साध्याभावेऽभावः। धर्मिणि सन् द्वयोः पक्षयोर्यः' सिद्धः स हेतुरित्यर्थः इति / धर्मिगि सन्नित्येतदेव व्याख्यातं द्वयोः पक्षयोर्यः सिद्ध इति / द्वयोः धर्मिणोर्यः सिद्ध इत्यर्थः / तदेवं स्वपक्षपरपक्षयोर्यः सिद्धः स सन् द्वयोरित्यभिधीयते इति / ननु च इत्यादि / “साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः” इत्याचार्यदिङ्नागेप्रगीतं पक्षलक्षणम् / अत्र साध्यत्वेनेप्सित इति प्रसिद्धसाध्यधर्मोपेतस्य धर्मिणः पक्षत्वं निराकृतम् / विरुद्धार्थानिराकृत इति तु प्रत्यक्षानुमानशब्दविरुद्धानां पक्षत्वनिराक्रिया। ते च सर्वे पूर्व प्रतिज्ञाभासप्रसङ्गेनोदाहृताः / फलभेदाद् इति / ननु फलभेदादिति न ज्ञायते / किं तत् फलं यस्य भेदः इत्याशङ्क्योक्तम्-पक्षार्थों न भिद्यत इत्यादि / वादाधिकरणतया प्रतिज्ञावाक्यस्योपादानम् / वादे च वादिप्रतिवादिनोर्भावात् वादिप्रतिवादिनोर्यदभीष्टं तत् फलशब्देनात्राभिधीयते / यदुक्तम् –“इष्टलक्षणत्वात् फलस्य" इति। वादिनश्च पक्षस्य सिद्धिरभिप्रेता, प्रतिवादिनस्तु तदुष्टिः / एवं चैकस्यैव पक्षशब्दलक्षितस्य धर्मिणो वादिप्रतिवादिभेदेन सिद्धिदुष्टिलक्षणधर्मास्पदत्वाद्भेदोपचारो द्वयोरिति / ननु च यथान्यैस्तार्किकैः पक्षधर्मतामात्रमभिहितं तद्वदिह कस्मान्नाभिधीयते / किमर्थं सन् द्वयोरित्युक्तमित्यभिप्रायेणाशङ्कते किं प्रयोजनमेवमुक्तेन इति / तत्र परिहारः परपक्षानुपादान इत्यादि / शब्दाभिव्यक्तिवादिनं प्रति इति मीमांसकं प्रतीत्यर्थः / स हि अकारादीनां वर्णानां देशका नवच्छेदाद् व्यापित्वेन नित्यत्वेन चावस्थितानां प्रयत्नोदीरितैर्वायवीयैः संयोगविभागैर्ध्वनिनादादिशब्दवाच्यैरभिव्यक्तिः क्रियत इति मन्यते / . स हेतुरित्यर्थ इति / साधयितुमिष्टो यो धर्मस्तदनुगमने यः सदृशः पक्षः स सपक्षः / तत्र च यः सन् स हेतुरित्यर्थः / संवृतिबुद्धिरभिप्रेता इति / यदुक्तम् "पररूपं स्वरूपेण यया संवियते धिया / एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः // तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् / अमेदिन इवाभान्ति भावा रूपेण केनचित् / / 1. द्वयोर्यः सिद्धः क. // 2. मूले सर्वत्र दिग्नाग इति पाठः / / 3. विप्रतिपत्ति // 4. उपचारस्योल्लेखो द्वयोरिति // 5. मूले-शङ्कयते, -मेव युक्तेनेति पाठौ // 6. यथाक्रमम् // 7 अभिप्रेतत्ववशात् // 8. अग्निमत्वादिना / /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy