________________ कल्पलताविवेके यस्तु स्वाभ्युपगतः शब्दस्तस्य द्विभेदता / तात्कालिकेन रूपेण प्रमागत्वेनाङ्गीकृतत्वादेको भेदः / कालोन्तरागीकृतप्रामाण्यत्वादपरः / तत्रं तात्कालिकेन रूपेण प्रतिज्ञा प्रामाण्येनाङ्गीकृतेति तद्विरोधे तदर्थविरोधित्वं दोषः / कालान्तराङ्गीकृतप्रामाण्यशब्दविरोधे तु सिद्धान्तविरोधिनी / तदुक्तम् 5 “त्रिधा शब्दविरोधस्तु स्यात् प्रसिद्धिविरोधतः / .. प्रतिज्ञापूर्वसञ्जल्प-सर्वलोकप्रसिद्धितः // " इति / प्रसिद्धिविरोधत इत्यनेन स्वसिद्धान्तविरोधिनी / प्रतिज्ञापूर्वेत्यादिना च तदर्थविरोधिनी सर्वागमविरोधिनी च प्रदर्शिता / एवमेते षट् प्रतिज्ञादोषाः / साधकबाधक प्रमाणाभ्यामनाघ्रातः इति / साधकप्रमाणाघ्रातत्वे प्रसिद्धधर्मत्वं नाम प्रतिज्ञादोषः / 10 बाधकप्रमाणाघ्रातत्वे त्वन्ये पञ्च / ते च पूर्वमुपदर्शिताः / .. ___ अथ हेतुलक्षणार्थमाह-सन् द्वयोः इति / प्रतिज्ञायाः प्रक्रान्तत्वादेकदेशभूतो धर्मी सम्बध्यतेऽत्र / तथाहि-द्वयोरिति सप्तम्या द्वित्वसङ्ख्याया विशेषशून्याया उपात्तत्वाद्विशेष्याकाङ्क्षायां पूर्वोदितप्रतिज्ञालक्षणपरामर्शात् प्रतिज्ञाशब्दाभिधेयं यद्वाक्यं तद्वाच्यस्य साध्यधर्मविशिष्टस्य धर्मिणः पक्षशब्दाभिधेयस्य एकदेशभूतो यो धर्मी स लक्षितलक्षणया 15 गृह्यते / प्रतिज्ञया स्ववाच्यभूतस्य पक्षस्य लक्षितत्वात् , पक्षेण च स्वात्मैकदेशभूतस्य धर्मिणः / द्वयोः प्रतिज्ञयोः सन् इति किमुक्तं भवति / प्रतिज्ञाशब्दवाच्यपक्षैकदेशभूते धर्मिणि सन्नित्यर्थः / ननु मुख्य एव साध्यधर्मविशिष्टो धर्मी पक्षोऽत्र कस्मान्न परिगृह्यते / तदेकदेशः किमिति लक्षणया संश्रितः / तदेकदेशपरिग्रहेऽपि वा साध्यधर्मस्य वह्नयादेः धर्मिणश्च पर्वतादेः सन्निधौ किमिति धर्येव लक्षणया परिगृह्यते न तु साध्यधर्म इति / / __ अत्रोच्यते / धर्मधर्मिसमुदायः साध्यधर्मश्च न योज्यतेऽनिष्टापत्तेः / यदि धर्मधर्मिसमुदाय इति साध्यधर्मविशिष्टो धर्मी पक्षत्वेनाभिधीयेत, ततो “नागृहीतविशेषणा विशेष्ये बुद्धिः" इति न्यायात् साध्यधर्मापरिग्रहे साध्यधर्मविशिष्टता धर्मिणो वक्तं न शक्येत / अतश्वावश्यं साध्यो धर्मो वहन्यादिः स्वात्मविशिष्टपर्वतादिधर्मिप्रतिपादनार्थत्वेन पूर्वं ग्रहीतव्यः / तास्मिंश्च गृहीते धूमस्य पक्षधर्मता परिगृह्येत / एवं चानुमानवैफल्यलक्षणमनिष्टं प्राप्नोति / 25 पूर्वमेव वहन्यादेधर्मस्य परिगृहीतत्वात् / एवं साध्यधर्मेऽपि पक्षशब्देन लक्ष्यमाणेऽनुमान वैफल्यलक्षणमनिष्टं योज्यम् / तदेवमनुमानवैफल्योपपत्तेः साध्यधर्मविशिष्टस्य धर्मिणस्तथा साध्यधर्मस्यापरिग्रहात् पारिशेष्याद्धर्मिण एव पर्वतादेः पक्षशब्देन ग्रहणम् / . ननु द्वयोरिति किमर्थमुपात्तम् / यावता प्रतिज्ञावाच्यपक्षकदेशधर्मिधर्मता द्वयोरित्येतस्योपादानमन्तरेण प्रकरणादेव लभ्यते / उपात्तमपि चैतन्न कञ्चन स्वमर्थमवगमयति / 1. पूर्वकाले // 2. एकदेशः प्रतिज्ञाया एव //