________________ दोषदर्शनम् तथाहि केचित् प्रमाणलक्षणमाहुः "अर्थोपलब्धिय॑वसायिनीयं यतो भवत्यव्यभिचाररूपा / तन्मातृमेयव्यतिरिक्तमाहुः प्रमाणमार्याः सुविवेचितार्थाः // " इति / / अत्रार्थोपलब्धिरिति व्यवसायिनीति अव्यभिचाररूपेति त्रिभिः पदैर्यथाक्रममज्ञानसंशय-विपर्ययलक्षणाप्रामाण्यनिरासः / यदुक्तम् “अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः / " इति / मातृमेयव्यतिरिक्तमिति तु कर्तृकर्मगोः सत्यप्येवंविधप्रमितिहेतुत्वे प्रमाणताऽपाकृता। तेन असंशयविपर्ययस्वभावा अर्थोपलब्धिर्यस्मात् कर्तृकर्मविलक्षणादुपजायते व्यवस्थाप्यते 10 वा तत्प्रमाणमिति साधकतमप्रमाणवादिदर्शनम् / - फलभूतप्रमाणवादिनस्तु फलभूतामर्थोपलब्धिमनन्तरोदितविशेषणद्वितयविशिष्टां प्रमितिः प्रमाणमिति व्युत्पत्त्या समगिरन्त / उभयोरपि च पक्षयोरर्थगतः शब्दगतो वा विशेषो नास्ति / फलेन करणस्याक्षेपात् / करणस्य च फलाविनाभावित्वादर्थगतविशेषाभावः / तदिदमुक्तं ज्ञानप्रमाणवादिना-अपीत्यादिना / शब्दगतविशेषाभावस्तु एकत्र प्रमाप्रमाण- 15 मित्यादिनोक्तः / विवादास्पद-इति / विचारगोचरीभूतो यो धर्मस्तेने कृतविशेषणः सविशेषणो धर्मी पक्षः / तस्य निर्देशो वचनरूपः प्रतिज्ञाशब्दवाच्यः / ___ अस्या दोषान् दर्शयितुमाह-तदर्थहेतु सिद्धान्त-इत्यादि / इहाग्निमत्त्वादिर्धों यस्य पर्वतादेस्ताद्रूप्येणे तद्विपर्ययतो वा दृढेन प्रमाणेन न गोचरीकृतस्तत्रानुमानस्य 20 प्रवृत्तिः / यत्र खलु प्रत्यक्षादिना ताद्रूप्यं परिगृहीतं तत्रानुमानस्य वैयर्थ्यम् / प्रमिते वस्तुनि प्रमाणाकाङ्क्षाया अभावात् / अतस्तत्र प्रसिद्धधर्मत्वं नाम प्रतिज्ञादोषः / यत्र च सिषाधयिषितधर्मवैपरीत्यपरिच्छेदः प्रमाणान्तरेण तत्रापि दृढतरप्रमाणापहृतविषयत्वादनुमानेन साध्यसिद्धिर्न क्रियते / सिपाधयिषितधर्मवैपरीत्यपरिच्छेदश्च प्रत्यक्षानुमानशब्दजन्यत्वात् विविधः / तत्र 25 प्रत्यक्षजन्ये प्रत्यक्षेण बाध्यमानत्वात् प्रत्यक्षबाधिनी प्रतिज्ञा / अनुमानजन्ये तु हेतुविरोधिनी। शब्दविरोधस्तु द्विधा / तथाहि-स्वात्मना सर्वैश्च यः प्रमाणत्वेनाभ्युपगतः शब्दस्तत्समाश्रयेण शब्दस्य द्वैविध्यम् / सर्वाङ्गीकृतप्रामाण्यशब्दविरोधे सर्वागमविरोधिनी / 1. करणे // 2. अग्निमत्त्वेन // 3. धर्मवैपरीत्यपरिच्छेदे // 4. आगम //