________________ 54. कल्पलताविवेके पक्षधर्मत्वान्वयव्यतिरेकादित्यर्थः / लिङ्गं पुनः इति / येन लीनोऽर्थो गम्यते प्रतिपाद्यते तल्लिङ्गम् / तावच्च तेन लीनोऽर्थो न प्रतिपादयितुं शक्यते यावत्तस्य तेन लीनेनार्थेन नियम्येन स्वसन्निधोनेऽवश्यम्भाविसन्निधितयाँ व्यवस्थाप्येनान्वयव्यतिरेकमूलमविनाभूतत्वं 5 रागादिमान् असर्वज्ञो वा वक्तृत्वात् रथ्यापुरुषवदिति / वक्तृत्वस्य सर्वत्र पुरुषादौ रागादिमत्त्वासर्वज्ञत्वाविनाभूततया उपलब्धत्वाल्लिङ्गताप्रसङ्गादलक्ष्यव्याप्तिलक्षणदोषः प्रसक्तः इत्याशङ्कयोक्तम्- प्रयोजकम्-इति / कश्चित् खलु प्रयोजकः पदार्थो भवति / कश्चित्त्वनुषङ्गी / यथा पक्तेरोदनः प्रयोजकः / आचामस्त्वनुषङ्गी। रथ्यापुरुषादौ च सांसारिकधर्माभ्यासो रागादिमत्त्वासर्वज्ञत्वाभ्यां 10 व्याप्तिं प्रयुक्ते / वक्तृत्वं तु तत्प्रयुक्तां व्याप्तिमुपजीवति / वक्तृत्वस्य सर्वज्ञत्वेन रागादि शून्यत्वेन च विरोधाभावात् / वक्तृत्वं च स्यात् सर्वज्ञत्वरागादिशून्यत्वे च भवेतां को विरोधः / अतश्च यथा आचामस्य ओदनप्रयुक्तपक्त्युपजीवित्वात्पक्तिं प्रत्यायोजकत्वम् , एवं वक्तृत्वस्यापि सांसारिकधर्माभ्यासप्रयुक्तरागादिमत्वासर्वज्ञत्वव्याप्त्युपजीवित्वान्न रागादिमत्वासर्वज्ञवे प्रति प्रयोजकत्वम् / यदुक्तम् 15 “अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः / तैदृष्टैरपि नैवेष्टा व्यापकांशावधारणा // " इति / एवं च प्रयोजकत्वे सति नियम्याविनाभूतत्वं लिङ्गलक्षगमिति नास्त्यलक्ष्यव्याप्तिः / तद्विदः इति / अत्र येनैतल्लक्षणं कृतं तद्ग्रन्थे पूर्वोपक्रान्तो योऽसावन्वयव्यतिरेकमूलो व्याप्यव्यापकभावात्मा हेतुसाध्ययोः सम्बन्धस्तस्य तदिति प्रत्यवमर्शः / एवं चात्रान्वय20 व्यतिरेको ज्ञाततोपगृहीतावुक्तौ / नान्तरीयार्थदर्शनमिति तु पक्षधर्मता तथाविधैव प्रति पादिता / यद्येवं पूर्वोक्तस्यैव त्रैरूप्यस्यात्र ज्ञाततोपगृहीतस्य लिङ्गनिष्ठत्वेनोपदर्शितत्वात् कः पूर्वस्मात् पक्षादस्य पक्षस्य विशेष इत्याशङ्कयोक्तम्-एतच्च लक्षणद्वयं दर्शितम् इत्यादि / पूर्वत्र वयादिज्ञानस्य फलभूतस्यानुमानतोक्ता, अनुमितिरनुमानमिति व्युत्पत्त्या / इह तु त्रैरूप्योपेतं यल्लिङ्गं धूमादिति तन्निष्ठस्य ज्ञानस्य पूर्वोपदर्शितायां संवित्तौ साधक25 तमस्यानुमानत्वमुक्तम् / अनुमीयतेऽनेनेत्यनुमानमिति / एवंविधस्य चाभिधानस्य फलं भाव साधनत्वे करणसाधनत्वे वा अनुमानशब्दस्य तथा प्रमाणसामान्यार्थाभिधायिनश्च प्रमाणशब्दस्य नास्ति विशेष इति तद्विचारे वृथाभिनिवेशस्तार्किकाणामिति ख्यापनम् / 1. धूमस्य // 2. नियम्यस्य // 3. प्रसङ्गाद्यलक्षा व्याप्ति-क. //