________________ दोषदर्शनम् पदार्थानां सौगतदर्शनेनाविद्यमानत्वान्नित्येभ्यो व्यावृत्तं सपक्षे तु घटादावनित्ये सद्भावोऽस्य नास्तीति न हेतुता। साध्याभावे चासत्त्वमेव इति / अनेन विपक्षाद् व्यावृत्तिरेवेति यल्लिङ्गस्य तृतीयं रूपं व्यतिरेकाख्यं तत् प्रदर्शयति / अत्र चायोगव्यवच्छेदेन विपक्षाद् व्यावृत्तिः प्रदर्शिता / तेन कृतकत्वधूमवत्त्वादेर्यथाक्रमं नित्येभ्यो वह्निशून्याच्च प्रदेशादयोगव्यवच्छेदेन व्यावृत्ते- 5 विद्यमानत्वाद्धेतुत्वम् / यस्य च पक्षधर्मत्वं सपक्षे च सत्त्वमस्ति न तु विपक्षाद् व्यावृत्तिस्तस्य न हेतुता / यथा-अनित्यः शब्दः प्रमेयत्वादिति / प्रमेयत्वस्य पक्षधर्मत्वसपक्षसत्त्वसद्भावेऽपि नित्यानामपि प्रमेयत्वेन नित्येभ्यो व्यावृत्तेरभावादहेतुत्वम् / यस्यापि च नित्येभ्योऽत्यन्तायोगव्यवच्छेदेन व्यावृत्तिरस्ति न त्वयोगव्यवच्छेदेन सोऽपि न हेतुर्यथा-अनित्यः शब्दःअमूर्तत्वादिति / अमूर्त्तत्वस्य पक्षधर्मत्वसपक्षसत्त्वेसद्भावेऽपि न विपक्षाद् व्यावृत्तिरयोग- 10 व्यवच्छेदेन अपि तु अत्यन्तायोगव्यवच्छेदेनेति न हेतुत्वम् / तथाहि कणाददृष्टया नित्येभ्यः परमाणुभ्यो व्यावृत्तममूर्त्तत्वं न त्वाकाशादेर्नित्यादिति विपक्षैकदेशवृत्ति / तेनास्य विपक्षादयोगव्यवच्छेदेन व्यावृत्तिर्नास्तीति न हेतुता / तदेवं लिङ्गस्य तृतीयं रूपं व्याख्यातम् / ___एवं च हेत्वाभासौ असिद्धानैकान्तिको व्याख्यातौ / असिद्धस्य द्विप्रभेदत्वमुक्तं सर्वासिद्धभागासिद्धत्वभेदेन / चाक्षुषत्वं हि सर्वासिद्धम् / गन्धवत्त्वं तु भागासिद्धम् / 15 अनैकान्तिकस्य द्वैविध्यम् असाधारणसाधारणभेदेन / असाधारणानैकान्तिकं श्रावणत्वम् / साधारणानैकान्तिकस्य द्वैविन्यं विपक्षव्यापिविपक्षैकदेशवृत्तिभेदेन / विपक्षव्यापि प्रमेयत्वं विपक्षकदेशवृत्तित्वमूर्त्तत्वम् / तदेवमेतावसिद्धानकान्तिको हेत्वाभासौ प्रपञ्चितौ। यस्य तु पक्षधर्मत्वे सति सपक्षे सत्त्वं नास्ति विपक्षे तु विद्यमानता स साध्यविपर्ययसाधनाविरुद्धो हेत्वाभासः / यथा शब्दनित्यत्वे साध्ये कृतकत्वम् / तद्धि नित्येष्वाकाशादिषु सपक्षेषु न 20 विद्यते / अनित्येषु तु विपक्षेषु घटादिष्वस्ति / एवमेते त्रयो हेत्वाभासाः असिद्धोऽनैकान्तिको विरुद्धश्च / हेतू तु द्वौ / सपक्षव्यापकः सपक्षैकदेशवृत्तिश्च / सपक्षव्यापि कृतकत्वम् / सपक्षकदेशवृत्ति धूमवत्त्वम् / एतेषामेव चानन्तरोपदर्शितानां हेतुहेत्वाभासानां सहस्रशो भेदाः संभवन्ति / ते ग्रन्थवैतत्यभीत्येह न प्रतन्यन्ते / एवं च यस्य हेतोस्त्रैरूप्यं समस्तव्यस्ततया नोपलब्धम् अथवा संशयितं यदि वा विपर्ययज्ञानेन विषयीकृतं तस्य हेत्वा- 25 भासत्वम् / तदेवं त्रिभिलक्षणैर्युक्ताल्लिङ्गात् ज्ञाततोपगृहीतात् यत् परोक्षार्थविषयं विज्ञानं तदनुमानम् / लिङ्गं पुनर्नियम्याविनाभूतं प्रयोजकमिति सर्वतर्केषु स्थितिः / ज्ञाततोपगृहीताद् इति / ज्ञाततया सम्यग्ज्ञानेनोपगृहीतात् स्वीकृतान्निर्धारित१. सपक्षत्व-क. // 2. नास्ति ग पुस्तके //