________________ कल्पलताविवेके नामपि नीलव्यक्तीनां नीलत्वेन एकीकरणं संसर्जनं नीलं नीलमिति / एकस्यापि च नीलस्य तत्तद्धर्मयोगितया भिन्नत्वेनोपदर्शनं नीलं महच्च(श्च ?)लतीति / सा चेयमविद्यावासना अनादिकालप्रवृत्ता। तस्याश्च परिपोषः स्वकार्यजननौन्मुख्यम् / तद्वशेन विकल्पज्ञानानां बाह्यवस्तुभेदसंसर्गात्मकत्वेनोल्लास इत्यर्थः / विद्यमान इति / 5 विज्ञानांश एव बहीरूपतया पारमार्थिकत्वेनावभासते / स्वलक्षणं वा नान्यत् किञ्चिदिति भावः / निरस्यन् इति योगाचारमताश्रयणेनेत्यर्थः' / विशेषः क इति इति। विशेषः स्वलक्षणं तस्यावयविरूपतया समुदायरूपतया चाघटमानत्वम् / तथाहि-अवयविनस्तावद् व्यतिरेकाव्यतिरेकवृत्तिविकल्पैरावृत्त्यनावृत्ति-कम्पाकम्प-रक्तारक्तत्वविकल्पैश्च निराकृतत्वादनुपपत्तिः / परमागवोऽप्यनुपपन्नाः / " षटकेन युगपद्योगात् परमाणोः षडंशता / - षण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः // " इति / न तावद इति / अनेन सौत्रान्तिकानामभिमतो यो ग्राह्यग्राहकभावस्तं निराकरोति / तथाहि- तेषां ग्राह्यग्राहकभावे एवंविधः सिद्धान्तः विज्ञानस्य जनको योऽसौ स्वाकारार्पणक्षमो नीलादिरर्थः स ग्राह्यः / यस्य खलु जनकत्वं केवलमस्ति न तु स्वाका15 रार्पणक्षमता तस्य ग्राहकता। यथा चाक्षुषविज्ञानहेतोश्चक्षुःक्षणस्य / चक्षुःक्षणेन हि चाक्षुषं विज्ञानं जन्यते / न तु तेन तत्र स्वाकारोऽय॑ते / यदुक्तम् ___ "भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः / हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् // " इति / एवंविधग्राह्य ग्राहकभावनिराकरणे च युक्तिस्तयोः सहभावाभावादित्युक्ता / न खलु 20 प्रत्यक्षमतीताकारोल्लेखि, अयं घट इत्युत्पादात् / तस्मादतीतार्थविषयत्वमन्याय्यम् / सहभावे च इति / अनेन तु वैभाषिकप्रसिद्धो ग्राह्यग्राहकभावो निराकृतः / तथाहि-वैभाषिकमते निराकारं विज्ञानमहङ्कारास्पदं सातादिरूपं ग्राहकं बाह्यस्तु इदन्तया प्रथमानोऽर्थो ग्राह्यः / तयोश्च चक्षू रूपालोक-मनस्कारलक्षणसामग्रीवशेन युद्धौन्धहरिणमिथुन न्यायेन युगपदेवोत्पादः / अतस्तुल्यकालयोरेव क्षणयोर्लाह्यग्राहकभाव इति / 25 एतन्निराकरणे च युक्तिः / यौ सहभूतौ तयोः परस्परं विषयविषयिभावो नास्ति / यथा सव्येतरगोविषाणयोरिति / न हि कार्यकारणभावव्यतिरेकेण विभिन्नयोरर्थयोरन्यः कश्चित् सम्बन्ध उपपद्यते / स्वप्रतिष्ठत्वेन सर्वेषां पदार्थानामन्यप्रतिष्ठत्वाभावात् / अन्यथा 1. निरस्यन्निति दिङ्नागाचार्यः इति पाठः ग-पुस्तके // 2. दिशा // 3. एकदेशावस्थितत्वे॥ 4. यद्वा? // 5. तादात्म्यरूपः / THHHHHI 10 ... सहभाव च