________________ 47 दोषदर्शनम् अयमर्थः / मानापमपि प्रप्यक्षं न केवलमिन्द्रियजम् / किंनिमित्तं किंविषयं च तदित्याह-अक्षविज्ञान-इति / अक्षविज्ञानमनन्तरमव्यवहितं प्रत्ययः कारणं तस्मादुद्भवो यस्य तदक्षविज्ञानानन्तरप्रत्ययोद्भवम् / अनेन मानसप्रत्यक्षस्य कारणं निर्दिष्टम् / तदर्थानन्तरग्राहीत्यनेनापि विषयः, तस्याक्षविज्ञानस्य योऽर्थो विषयस्तस्य योऽनन्तरोऽव्यवहितः समानजातीय उपादेयभूतः क्षणस्तद्ग्राहीति संक्षेपार्थः / सुखादीनां स्ववेदनम् इति / सुख-दुःखेच्छा-द्वेष-प्रयत्नप्रभृतीनां स्वसंवेदनं. प्रत्यक्षं स्वैस्यात्मनो वेदनं स्ववेदनं वेद्यतेऽनेनेति च योग्यत्वं सुखादीनां वेदनशब्देनोच्यते / ततः सुखादीनामात्मवेदनयोग्यत्वं प्रत्यक्षमित्यर्थः / "भावनाबलतः स्पष्टं भयादाविव भासते / यज्ज्ञानमविसंवादि तत् प्रत्यक्षमकल्पकम् / / " भावनासामर्थ्याद्यज्ञानं स्पष्टाभं भयादाविव भासते निर्विकल्पकमविसंवादि तद्योगिप्रत्यक्षमित्यर्थः / तथाहि योगिनामपि श्रुतमयेन ज्ञानेनार्थान् गृहीत्वा युक्तिचिन्तामयेन व्यवस्थाप्य भावयतां भावनानिष्पत्तौ यद्विशदावभासि भयशोककामोन्मादादाविव तदविकल्पकमवितथविषयं प्रमाणं योगिप्रत्यक्षं सौत्रान्तिकयोगाचारमाध्यमिकमतानुयायि दिङनागोक्तलक्षणं निरूप्य वैभाषिकमतानुसारि वसुबन्धुक्तलक्षणं प्रत्यक्षस्य दर्शयितुमाह- 15 ततोऽर्थादिति इति / ततो व्यपदेशनिमित्ताद् इति / व्यपदेशनिमित्तं रजतविज्ञानस्य रजतम् / तेन हि तद्रजतविज्ञानं व्यपदिश्यते रजतस्येदं विज्ञानमिति / ततश्च व्यपदेशनिमित्ताद्रजताद्यद्रजतविज्ञानमुत्पन्नं तत् प्रत्यक्षम् / यस्य तु रजतविज्ञानस्य न व्यपदेशनिमित्ताद्रजतादुत्पादोऽपि तु शुक्तिकातस्तस्य न प्रत्यक्षता / योजनाम्-इति / यद् यत्र पारमार्थिकेन रूपेण नास्ति 20 इति / सर्वस्यैव हि भावस्य त्रिजगदुदरवर्तिभावव्यतिरिक्तत्वेन यः स्वरूपलाभो व्यवस्थितस्तं व्यावहारिकजनः प्रतिनियतावधिकत्वेन स्ववासनावशान्मन्यत इत्येतदभिप्रायेण व्यावृत्तियोजनाभिधाषष्ठीकल्पनानेनोक्ता / अत एव व्यावृत्तान्नान्या व्यावृत्तिरिति बौद्धाः। सौत्रान्तिकानां मते बाह्योऽर्थो निरंशः साकारं च विज्ञानम् / तत्र द्विविधा वासना / अनुभववासना अविद्यावासना च / अनुभववासनामाहात्म्यादाकारोल्लेखो विज्ञानेषु / अविद्यावासनामाहात्म्यात्तु स्वाकारस्य बहीरूपतयाध्यारोपिते सति भेदसंसर्गौ / तथाहि भिन्ना 1. सम्बन्धषष्ठी // 2. कर्मणि षष्ठी // 3. भावे //