SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके -सम्प्रति प्रस्तुतमनुसर्तुमाह-सन्धादय इति / प्रमाणमूला इति / तथाहि-अग्निमान् पर्वत इति प्रतिज्ञायां पर्वतस्तावत् प्रत्यक्षेण निश्चीयते / अग्निसम्बन्धस्तु तस्यानुमानात् प्रतीयत इति प्रतिज्ञायाः प्रत्यक्षानुमानमूलत्वम् / धूमादिति तु हेतौ धूमगतस्य पर्वतधर्मवस्य पक्ष धर्मत्वाभिधानस्य प्रत्यक्षेण प्रतिपत्तिः। अन्वयव्यतिरेको तु तत्र प्रत्यक्षानुपलम्भाभ्यां यथाक्रम 5 महानसादावुदकादौ च धर्मिणि अवगम्यते इति प्रत्यक्षानुपलम्भयोस्तत्र व्यापारः / तथाहि यत्र यत्र धूमस्तत्र तत्राग्निर्यथा महानस इति धूमस्य वह्निनान्वयः प्रत्यक्षेण प्रतीयते / यत्र तु वह्निर्नास्ति तत्र धूमोऽपि' नास्ति, यथा जलादाविति वह्नयभावस्य धूमाभावेन व्याप्तिः / तदात्मको यो व्यतिरेकस्तस्यानुपलम्भेन प्रतिपत्तिः / धूमसत्ता खलु वह्निसत्तया व्याप्ता / धूमस्य वह्निशून्यस्याभावात् / वह्नयभावस्तु धूमाभावेन व्याप्तः / वह्नयभावस्य धूमयुक्त्य10 भावात् / तदेवं भावव्याप्तिविपर्ययेणाभाक्याप्तिः / तदुक्तम् "व्याप्यव्यापकभावो हि भावयोर्याटगीक्ष्यते / / तयोरैभावयोस् तस्माद्विपरीतः प्रतीयते // " इति / . तदेवमन्वयव्यतिरेकयोः साधर्म्यवैधर्म्यदृष्टान्ताश्रितयोः प्रत्यक्षानुपलम्भाभ्यां प्रति पत्तिरिति तदभिधायिन उदाहरणवाक्यस्य प्रत्यक्षानुमानमूलता / तेन प्रतिज्ञाहेतूदाहरणा15 नामनन्तरोदितेन न्यायेन प्रत्यक्षानुमानमूलत्वादेतदुक्तम् / प्रतिज्ञाहेतुदृष्टान्ताः प्रमाण मूला इति / अत्र च सौगतदृष्ट्या भामहेन परार्थानुमानात्मकवाक्यावयवत्वेन प्रतिज्ञाहेतूदाहरणात्मकं त्रितयमेवोपदर्शितमिति न तदितरयोरवयवयोरुपनयनिगमनयोः प्रमाणमूलता प्रदर्शिता / यद्यपि च धर्मकीर्त्तिना प्रतिज्ञाप्रयोगस्य निराकृतत्वाद् यो यो धूमवान् स 20 सोऽग्निमान् , यथा महानसस्तथा चायं धूमवानिति द्वयवयवमेव वाक्यं परार्थानुमानकाले प्रयोज्यमिति प्रादर्शि / तथाप्याचार्यदिङ्नागमतानुसारेण व्यवयवं वाक्यमनेन प्रदर्शितम् / तदाश्रयणेनैव चास्माभिस्त्रयाणामवयवानां यथायोगं प्रत्यक्षानुमानमूलता प्रदर्शिता / अरुचिपरम् इति / सर्वतर्कमार्गानुवर्तनपरत्वात् काव्यप्रवाहस्येत्यर्थः / प्रत्यक्षानुमानयोर्विषयद्वारकं भेदमुपदर्य लक्षगभेदसन्दर्शनार्थ प्रत्यक्ष तावल्लक्षयति25 प्रत्यक्षम् इति / सम्यग्ज्ञान-इति / सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति प्रारम्भ एव बौद्धेन प्रतिज्ञातत्वादिति भावः / मानससुखादि-इति / एषां च लक्षणम् / " मानसं चाक्षविज्ञानानन्तरप्रत्ययोद्भवम् / तदर्थानन्तरग्राहि सुखादीनां स्ववेदनम् // " 1. धूमो ग. // 2. वह्निधूमयोः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy