SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ .. दोषदर्शनम् महाकुलीनः स्वजन्मनः प्रभृति हस्तिपरिभोगलालितो वने चासकृद्वीणाप्रयोगेण वारणान् बद्धवान् / तस्येत्थंभूतस्य यन्त्रमये कुञ्जरे कथं सत्यगजबुद्धिः स्यात् / बालोऽपि खलु सचेतनस्य वनहस्तिनश्चर्मगा चोपकल्पितशरीरस्य विशेषमवगच्छति, किमङ्ग पुनर्वत्सराज इति / ही चित्रम् / कि कथम् / तु तदिति / महापुरुषस्खलितनिमित्तं विस्मयमात्मनः ख्यापयतीति / धर्मशास्त्राणि इति धर्मोपदेशकानि शास्त्राणि / तानीहाविशेषेण परिगृह्यन्ते / तेन यो यत्रागमे प्रपन्नस्तस्य तदागमविरुद्धाचरणे निबद्यमाने धर्मशास्त्रविरोधकृत् काव्यं सिद्धं भवति / ननु किमिति सुगतसिद्धान्तप्रमाणयोरेव विचारणम् / सर्वसिद्धान्तानुवर्त्तनपरो हि काव्यप्रवाहस्तेन कः पक्षपातो बौद्धसिद्धान्तं प्रतीत्याह-प्रायेण इति / बाहुल्येन दुर्बोधत्वात् तर्कशास्त्रेभ्यस्त्रस्यन्त्यल्पबुद्धयः, अनेन निमित्तेन तेषामुपच्छन्दनार्थं प्रतार्य तर्कमार्गे प्रवेश- 10 नार्थं सहृदयानां हेतुन्यायलवसमुच्चयः कृतोऽयमस्माभिर्न पुनः सुगतदर्शनपक्षपातेन / एतदुक्तं भवति / दिङ्मात्रदर्शनं प्रमागलक्षणे कर्त्तव्यम् / सकलतर्कप्रमाणलक्षणविचारेति प्रपञ्चः प्रसज्यते / कथं पुनः सहृदया अनेन प्रकारेगोपच्छन्द्यन्त इत्याह-स्वादुकाव्यइति / काव्यमार्गानुपाति तर्कवस्त्वपि नातीव चेतसः खेदकरं भवति / अत्र दृष्टान्तमाह"प्रथमं लीढमधवः” इति / 15 यत्तदुक्तं सर्वतर्कमार्गानुवर्तनपरः काव्यप्रवाह इति तत्स्वयमेव दर्शयितुमाह-न स शब्दः इति / यथा सर्वेषां शब्दानामर्थानां कलानां च काव्येषूपयोगस्तद्वत् सर्वन्यायानामिति वाक्यार्थो दीपकालङ्कारेण लक्ष्यते / अहो भारो महान्कवेः इति / अत्र महाभारत्वेन सर्वेषां शब्दानां तदर्थानां, शब्दार्थविचारोपयोगिनां च न्यायानां, तथा तद्विषयतया सकलजनरसिकत्वापादनक्षमागां गीतनृत्तचित्रादिकलानां रूपणा कृता / सा चाहो 20 इत्यनेन विस्मयविभावतया ख्यापिता / सर्वस्य चार्थप्रतिपादनस्य हिताहितप्राप्तिपरिहारोपायानुष्ठानाङ्गत्वात् / तत्र च हिताहितप्राप्तिपरिहारोपायानुष्ठानस्य शब्देनानुपात्तत्वात् , कविशब्दार्थपर्यालोचनया अहो महान् भार इत्येतदर्थपरामर्शेन च कवेरवधानातिशयः, कीर्तिप्रीत्युपायतया अर्कार्तिपरिहारोपायत्वेन च कर्त्तव्यतया प्रतीयते / यथा खलु महान् भारः सातिशयमवधानमन्तरेण शरीरेण वोढुं न शक्यते, तथा महाभारत्वरूषितं वाच्य- 25 -वाचक-तद्विचार-हृदयरञ्जनात्मकं चतुष्टयमविद्यमानेऽवधानातिशये न हृदयेनोद्वोढुं शक्यमित्यर्थः / तस्मात् कीर्तिप्रीतिकामेनाकीर्तिपरिहारकामेन च शब्द-वाच्य-न्याय-कलालक्षणे . चतुष्टये अवधानातिशयः कर्त्तव्य इत्यर्थः सम्पद्यते / 1. सकलजनरसिकत्वापादन- // 2 रूपितं ग //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy