________________ 49 दोषदर्शनम् सामान्यादीनामपि सत्त्वापातात् / सामान्यादीनां हि निराकरणे पदार्थस्य परप्रतिष्ठरूपानुपपत्तियुक्तित्वेनोपन्यस्ता / सा चेदानी ज्ञानस्य ग्राहकत्वेन विषयनिष्ठत्वेऽभ्युपगम्यमाने परित्यक्ता स्यात् / अतश्च यथा ज्ञानस्य ग्राहकत्वाद् ग्राह्यनिष्ठस्याङ्गीकरणं तथा सामान्याद्यपि व्यक्त्यादिनिष्ठं कस्मान्नाङ्गीक्रियेतेति सौगतसिद्धान्तपरित्यागप्रसङ्गः / तस्मात्तुल्यकालयोरपि ग्राह्यग्राहकभावो न न्याय्यः / __ स्यादेतद इत्यादि / अनेन सौत्रान्तिकपक्षोन्मीलनम् / तस्य निराकरणम् एतदपि वार्तम् इत्यादिना / अयमर्थः / सौत्रान्तिकपक्षे बाह्यस्यार्थस्य जडरूपत्वात् स्वतस्तावत् प्रकाशमानता नोपपद्यत इति ज्ञाने तदाकारधारिणि प्रकाशमानेऽर्थस्य प्रकाशमानता ज्ञानास्पदत्वात् परभूमित्वेन वक्तव्या / यदाहुः-“परभूमिरियमर्थस्य प्रकाशमानता नाम" इति / एतच्च ज्ञानस्यार्थाकारत्वनिश्चये सत्युपपद्यते / अर्थस्य च ज्ञानाकार- 10 व्यतिरेकेणानुद्भातत्वात् ज्ञानस्यार्थाकारतानिश्चयो दुर्घटः / तस्माज्ज्ञानमेव साकारं न तु बाह्योऽर्थः कश्चिद्विद्यत इति योगाचारभूमिकानुप्रवेशः प्रसक्तः / आकारस्य चानादिवासनावशेनोत्पादसंभवान्नाकारान्यथानुपपत्तिवशेन बाह्योऽर्थः परिकल्पयितुं शक्यः / यश्चासावाकारो ज्ञानस्यानादिवासनावशेनोपजायते, तस्य व्यतिरेकाव्यतिरेकवृत्तिविकल्पैरनुपपद्यमानत्वात्तस्य चानुपपत्तौ तद्ग्राहित्वस्यापि ज्ञाननिष्ठस्य कल्पयितुमशक्यत्वात् परमार्थतः 15 स्वच्छ एवायं ज्ञानप्रवाहः / ग्राह्यग्राहकसंवित्तिकालुष्यं तु तस्य सांवृतिकमपारमार्थिकं विकल्पनिर्मितमेवेति प्रसक्तम् / अतश्चायं पारमार्थिकः स्वच्छो ज्ञानप्रवाहः येन च ग्राह्यग्राहकसंविद्भेदेन व्यवहारस्तस्यापारमार्थिकत्वमिति महती कदर्थना / प्रातीतिकस्य ग्राह्यग्राहकसंविन्दस्यासत्त्वादप्रातीतिकस्य च स्वच्छस्य ज्ञानप्रवाहस्य सत्तया अङ्गीकृतत्वात् / तदुक्तम्-"तदपोहे च तथा ता शिष्टा सा बुद्ध[द्धि]गोचरः” इति / अथ मतम् इत्यादि / अनेन पारमार्थिकत्वेन यः स्वच्छं विज्ञानप्रवाहमिच्छति, ग्राह्यग्राहकविकल्पौ तु कल्पनामात्रनिमित्तौ सांवृतावभिमानमात्रसाराविति तथाविधयोगाचारदर्शनाक्षेपः / अयमभिप्रायः / न विज्ञानेन कश्चित् स्वच्छरूपव्यतिरिक्तोऽर्थो गोचरीक्रियते / स्वसंविदितत्वेन विज्ञानस्य स्वच्छरूपमात्रनिष्ठत्वात् / यस्त्वयं ग्राह्यग्राहकसंविदां भेदः स न प्रकाशते / अनाद्यविद्यावासनाविकाशात्त्वभिमानमात्रमेतत् / इदं ग्राह्यमिदं ग्राहकमियं 25 संवित्तिरिति / अतश्च यथा आलोकस्यादर्शनमात्रे अन्धकारस्यावस्तुत्वादपरिदृश्यमानत्वेऽप्यन्धकारं पश्यामीति भ्रमस्तथानाद्यविद्याव्याकुलत्वेन स्वच्छज्ञानप्रवाहाणां विलोकनादिदं प्रमेयमिदं प्रमाणमियं प्रमितिरिति प्रकाश इव न तु प्रकाश एवेति / तन्निबन्धनश्च भावोपादानात्मको व्यवहारो न तु प्रकाशमानरूपनिबन्धन इति / तदेतदवस्तुकं चेदित्याशङ्कितं