________________ ___10 . कल्पलताविवेके समपाण्यईपाण्यापाणि-पार्श्वपाणि-प्रदेशिनीपाणिभिर्यत् प्रहारपञ्चकं तद्योगेनेत्यर्थः / प्रकृतिविकृतिमेयमानानुहायर्यानुहर्तृरूपस्य वैणपौष्करशब्दस्य परस्परसम्मीलनं कार्यमिति मार्गासारितम् / मार्गे प्रकृत्यादिलक्षणे निजे गोचरे विकारादिरूपस्य पुष्करवाद्यस्यासमन्तात् सारणं गमना यत्रेति / गेयवस्तुगततालस्वरूपोपक्षेपः कलानामावापाद्यानां पातानां सम्या5 दीनां चानुसन्धिनेत्यासारितविधिः / आवापाद्यानाम् इति / आवाप-निष्क्राम-विक्षेपप्रवेशादिरूपाणाम् / "उत्तानाङ्गुलिसङ्कोच आवाप इति संज्ञित. / .. निष्क्रामोऽधोगतस्य स्यादङ्गुलीनां प्रसारणम् // तस्य दक्षिणतः क्षेपो विक्षेप इति संज्ञितः / निवर्त्तनं च हस्तस्य प्रवेशोऽधोमुखस्य तु // " सम्यादीनाम् इति / सम्यादीनां सम्या-ताल-सन्निपात-ध्रुवादीनाम् / ... "सव्यहस्तनिपातः स्यात् सम्या तालस्तु वामतः / हस्तयोस्तु समः पातः सन्निपात इति स्मृतः // .. कला या त्रिविधा प्रोक्ता तस्याः पाताद् ध्रुवः स्मृतः / " एवमन्तर्जवनिकाङ्गानां लक्षणान्युक्वा वहिर्जवनिकाङ्गानां लक्षणान्याह / "कीर्तनादेवतानां च ज्ञेयो गीतविधिस्तथा / यस्मादुत्थापर्यन्त्यत्र प्रयोग नान्दिपाठकाः / पूर्वमेव तु रङ्गेऽस्मिस्तस्मादुत्थापनं मतम् // ..... यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् / वन्दनानि प्रकुर्वन्ति तस्माद्वपरिवर्तनम् // आशीर्वचनसंयुक्ता नित्यं यस्मात् प्रयुज्यते / देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता / / अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः / . तस्मात् शुष्कावकृष्टेयं जर्जरश्लोकदर्शिका // यस्मादभिनयश्चात्र प्रथमं त्ववतायेते / रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् // शृङ्गारस्य प्रचरणाचारी संपरिकीर्तिता / रौद्रप्रचरणाच्चापि महाचारीति शब्दिता // 1. –ताम् ग. // 2 हस्तस्य // 3 अयम्पाठः ग, पुस्तकस्य // 4. दक्षिणादिवृत्तिभेदेन // 5 रचयन्ति // 6 उत्थापनाङ्गे / 7. -द्धि ग. // 8. स्तुति // 9. उक्तिः //