SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् "यद्यपि पुरुषो गायति गीतविधानं तु लक्षणोपेतम् / स्त्रीविरहितः प्रयोगस्तथापि न सुखावहो भवति // " इति / वस्तुतस्तु अवतरणान्तमेकमेवाङ्गमुपरञ्जकवर्गढौकनरूपमवगन्तव्यमित्यर्थः / गेयत्वेन गीतस्योपरञ्जकस्य प्राधान्यात्तस्य च बिम्बभूतशारीरस्वरमूलवात्तदनुसन्धानात्मा आलापाख्य आरम्भः / मानरूपतालप्रधानसर्वातोद्यगरूपानुसन्धानमासमन्तात् श्रावयतीत्याश्रावणा / 5 प्रतिबिम्बभूतवैणस्वरस्वरूपानुसन्धानाय दक्षिणादिवृत्तिविभागानुसन्धानात्मा वक्त्रपाणिः / वको प्रारम्भे हस्ताङ्गुलीव्यापारात् / दक्षिणादि-इति / दक्षिणा-वृत्ति-चित्राख्या वृत्तयः / तास्वयं विधिः / प्रधान गीतमुभयं वाद्यं चेति यथाक्रमम् / गीतप्राधान्ये वाद्यगुणतायां दक्षिणा / गीतवाद्योभयप्राधान्ये वृत्तिः / वाद्यप्राधान्ये गीतगुणतायां चित्रेति / तद्वृत्तिविभागगतशुष्कप्रयोगानु- 10 सन्धानात्मा परिघट्टना / “घट्ट चलने” इति पाठात् / शुष्कप्रयोग-इति / निर्मातं बहिर्गीतं शुष्कमित्युक्तम् / तत्रार्थप्रत्यायकपदरहितं यद् गीयते तन्निर्गीतम् / गीयमानेभ्यः सार्थकेभ्यः पदेभ्यो यद् बहिर्भूतं तद् बहिर्गीतम् / शुष्कैरक्षरैरनर्थकैः कॅन्दुमाधैर्यत् प्रयुज्यते तत् शुष्कमित्यर्थः / वीणावाद्योपजीवकत्वादवनद्धवाद्यस्यानुसन्धानं समपाण्यादिना प्रहारपञ्चकयोगेन च क्रियत इति सङ्घोटना / “घुट परिवर्त्तने"। यत उक्तं पुष्कराध्याये 15 "पूर्व शरीरार्दुभृतास्ततो गच्छन्ति दारवीम् / ततः पुष्करजं चेति. ............ समपाण्यादिना ति / "अङ्गभूता हि तालस्य यतिपाणिलयाः स्मृताः।" इति / पाणिस्तालस्याङ्गभूतः / स च त्रिविधः / तथा चाह "समपाणिश्च विज्ञेयो ह्यर्धपाणिस्तथैव च / तथैवोपरिपाणिश्च गीतवाद्यसमाश्रयः // लयेन यत् समं वायं समपाणिः स कीर्त्यते / / लयाद् यदर्धकृष्टं स्यात् सोऽर्द्धपाणिः प्रकीर्तितः // लयस्योपरि यद्वाद्यं पाणिः सोपरि कीर्त्यते / " सोपरि इति। "सोऽचि लोपे चेत् पादपूरणम्" / स[स]इत्येतस्य सलो सोर्लो पोभवति, लोपे चेत् पादपूरणम् / यदि लोपे सति पादः पूर्यते / प्रहारपञ्चक-इति / 1. मेयत्वेन ग. // 2. अप्रधानतायाम् // 3. चित्र्येति ग ! // 4. कहुमाद्यैः ख. कहन्दु ग. // 5. गीतविशेषाः // ....... 20
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy