________________ कल्पलताविवेक ततश्चोत्थापनं कार्य परिवर्त्तनमेव च / नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च // चारी चैव ततः कार्या महाचारी तथैव च / त्रिगत(त्रिक) प्ररोचना च(चा)[पि] पूर्वरङ्गे भवन्ति हि // " ..... / अस्य इति पूर्वरङ्गस्य / एतानि तु इत्यादि / प्रत्याहारादीनि आसारितान्तानि नव अन्तर्जवनिक प्रयोज्यानि / ततः सर्वैस्तु इति / ततोऽनन्तरं गीतकादीनि प्ररोचनान्तानि दश जवनिकाया बहिः प्रयोज्यानीत्यर्थः / मद्रकादीनाम् इति / मद्रकोल्लोप्यकापरान्तकप्रकर्युवेणकरोविन्दकोत्तराणाम् / वर्द्धमानम् इति। वर्द्धमानं तालरूपविशेषः / अथापि इति अथवेत्यर्थः / तेन गीतानामन्यतमं वर्द्धमानं वेति / ताण्डवम् इति ताण्डवाख्यं नृत्तम् / 10 यत्र इति वर्द्धमाने। पूर्वरङ्गे इति / गीततालवाद्यनृत्तपाठ्यं व्यस्तसमस्ततया पूर्वमेव प्रयुज्यते / यत्र रङ्गे मण्डपे नाटये वा बुद्धिस्थे भविष्यति स पूर्वरङ्गः / - एतेषामेव क्रमशो लक्षणान्याह "कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः। तथावतरणं प्रोक्तं गायिकानां निवेशनम् // परिगीतक्रियारम्भः आरम्भ इति कीर्तितः / आतोघरञ्जनार्थं तु भवेदाश्रावणाविधिः // वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते / तन्त्र्योजःकरणार्थं च भवेच्च परिघटना // तथा पाणिविभागार्थ भवेत् सङ्घोटनाविधिः / तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते // कला(काल)पातविभागार्थ भवेदासारितक्रिया / " ___ नेपथ्यगृहद्वारयोर्मध्ये पूर्वाभिमुखो माईङ्गिकः / तस्य पाणविकदाईरिकं वामतः / रङ्गपीठस्य दक्षिणत उत्तराभिमुखो गायमः। तस्याने उत्तरतो दक्षिणाभिमुखस्थितयो गायन्यः / अस्य वामे वैणिकोऽन्यत्र वंशवादकाविति / एवं कुतपस्य कुतं पातीति कुं 25 तपतीति च शब्दविशेषपालकस्य नाट्यभूमिकोज्ज्वलताधायिनश्च वर्गस्य यो विचित्रो न्यासः स विप्रकीर्णानामेकत्र ढौकनात्मा प्रत्याहारः / यद्यपि कुतपविन्यासमध्य एव गायनस्याभिमुख्यो रङ्गपीठस्योत्तरतो गायन्य इति गायिकानां विन्यासस्तथापि त्ववतरणं नाम पृथगङ्गमुक्तम् / अङ्गनागीतस्यावश्यंभावित्वं रक्षकवर्गे ख्यापयितुम् / यदुक्तम् 1. स्वरूप- / / 2. चेति ग. // 3. पञ्चनिमेषात्मिका कला //