________________ - दोषदर्शनम् हितोपदेशाभावान्नाभिनयप्रपञ्चो नाट्यम् / अयमभिप्रायः। नाभिनयादिप्रयोगमात्रेण नाट्यत्वं, रसात्मकत्वान्नाट्यस्य / रसाश्च चतुर्वर्गतदितरप्राप्तिपरिहारोपायभूतचित्तवृत्त्यनुकारात्मकाः। एतेषु च पुष्पाञ्जलिलास्यताण्डवेष्वाशीर्वादपरत्वाच्चतुर्वर्गतदितरप्राप्तिपरिहारोपायनिष्ठरसास्वादजननद्वारकं सामाजिकजनमनोनिष्ठं हितोपदेशहेतुत्वं नास्तीति न नाट्यरूपता / अपि तु नाट्यतुल्यवृत्तान्तत्वमिति नृत्तकलाविरोधः / . . . अथैवमुच्यते- भाविनो नाट्यस्यैतानि पुष्पाञ्जल्यादीन्यङ्गानि / अङ्गानां च प्रधानोपकारितया प्रधानतिरस्कृतत्वेनावभासमानत्वात्तव्यपदेश एव न्याय्यः / न खलु राजानुयायिनों भृत्याः स्वरूपेण व्यपदिश्यन्ते, देवदत्तो याति यज्ञदत्तो यातीति, किन्तु राजा यातीति / एवमिहापि पुष्पाञ्जल्यादीनां नाट्याङ्गानां न नाट्यतुल्यवृत्तान्तत्वनिबन्धनो नृत्तरूपतया व्यपदेशो न्याय्यः / अपि तु नाट्यव्यपदेश एव युक्तः / तर्पङ्गस्या- 10 लब्धनिजरूपस्याङ्गिनं प्रत्यनुपकारकत्वात् स्वरूपापेक्षयात्र नृत्तत्वं, प्रधानापेक्षया तु नाट्यत्वमित्युभयमप्यत्र वक्तुं शक्य, नृत्तकलाविरोधो नाट्यकलाविरोधश्चेति / अतो भवत्येतानि नृत्तकलाविरोधस्याप्युदाहरणानीत्यत्रोपदर्शितानि / रङ्गद्वारादीनि तु पूर्वरङ्गस्याङ्गानि। तथा चाह मुनिः / "अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः / तन्त्रीभाण्ड्समायोगैः पाठ्ययोगकैतैस्तथा // प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च / .... आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना // सङ्घोटना ततः कार्या मार्गासारितमेव च / ज्येष्ठमध्यकनिष्ठानि तथैवासारितानि च // एतानि तु बहिर्गीतान्यन्तर्जवनिकागतैः / प्रयोक्तभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि तु // ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् / विघाट्य वै जवनिकां नृत्तपाठयकृतानि तु // गीतानां म(मु)द्रकादीनी योयमेकं तु गीतकम् / वर्द्धमानमथापीह ताण्डवं यत्र युज्यते // 1. अवनद्धं पुष्करमिति यावत् // 2. भावे // 3. मध्ये // 4. प्रयोज्यमित्यर्थः // 5. वर्द्धमाने // 15 25