________________ 34 कल्पलताविवेके महाचार्यां प्रयुक्तायां तुष्टो भूतपतिर्भवेत् / " . . .. न च नाम अन्यदेवतास्तुतौ स्तुतादन्यस्य परितोषः कल्पयितुं युक्तः / लोकानुसारेव्याघातात् / मुख्यस्तावदेष पक्षः / लोके यस्य स्तुतिस्तस्य प्रीतिरिति / तस्माद्विष्णुगौरीमहेश्वराणामेव रङ्गद्वारचारीमहाचारीषु स्तुतय उपनिबन्धनीयाः / अन्यथाकरणे कलाविरोधो यथा जाह्नव्यां धृतमत्सरं गुरुधुणामन्दं कपालोदरे ___ सत्रासाकुलितं भुजङ्गमपतौ चन्द्रे प्रसादोल्लसत् / शुश्रूषार्थमुपेतया पशुपतेरावय॑मानः शनै ौर्याऽनेकरसाश्रयोऽस्तु भवतां भद्राय पुष्पाञ्जलिः // . अत्र पुष्पाञ्जलौ भरतविरुद्धो महेश्वरः स्तुत्यत्वेनोपात्तः / ... युक्तं मानदमामनन्यमनसं वक्षःस्थलस्थायिनी भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव / इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव दृष्ट्वा तनुं निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् / / " 15 कर्तुम् इति काकुभणितिरियम् / करोतिरत्र स्वीकारे वर्त्तते / दण्डं करोति इत्यादिवत् / न त्वभूतप्रादुर्भावे, विरोधात् / अत्र लक्ष्मीस्तुतिर्भरतमतेन विरुद्धा / कामेनाकृष्य चापं हतपटुपटहावल्गिभिर्मारवीरैः भ्रूभङ्गोत्कम्पजृम्भास्मितललितकृता दिव्यनारीजनेन / सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन . ध्यायन् बोधेरवाप्तावचलित इति वः पातु दृष्टो मुनीन्द्रः / / अत्र महाचार्यां बुद्धः स्तुतो भरतेन विरुद्धयते / मनु चैतेष्वाङ्गिकाद्यभिनयोपेतत्वान्नाट्यत्वं, न तु नृत्तत्वम् / नृत्र्तस्योद्वेष्टितादिकरणचतुष्टयसमाश्रयस्य ललितोद्धतकरणाङ्गहारभेदेन द्विविधत्वेनावस्थितत्वात् / तस्य चाभिनयात्मके नाटये संस्कारहेतुत्वेनात्र प्रवृत्तत्वात् / संस्कारकाः खलु पदार्थाः संस्कार्यपरतन्त्राः / 25 अतो नृत्तसंस्कार्य यदत्र नाट्यमभिनेयात्म तद्विरोधेन कलाविरोधोऽभिधातव्यो न तु नृत्त कलाविरोधेन / - उच्यते-अत्राङ्गिकाद्यभिनेयोपेतत्वेऽप्याशी:परत्वेन रामवद्वर्तितव्यं न रावणवदिति 1. व्यवहार // 2. कपोलो-ग. // 3. दीयमानः // 4. नृत्तत्व- ग // 5. -नया- ग. // 20