________________ दोषदर्शनम् “उत्तरमन्द्रा रजनी तृतीया तूत्तरायता / चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरी कृता // अश्वक्रान्ता तु षष्ठी स्यात् सप्तमी चाभिरुद्गता / स्वरक्रमकृता विद्यात् सप्तैताः षड्जमूर्च्छनाः / सौवीरी मध्यमग्रामे हा[ह]रिणाश्वा तथैव च / स्यात् कलोपनता चैव चतुर्थी शुद्धमध्यमा // मार्गी च पौरवी चैव हृष्यका च यथाक्रमम् // " इति / न संभवति इति दृढोपनिबद्धत्वादिति भावः / वैचित्र्येण इति आनुलोम्यादिना / श्रुतिसमधिकम् इति / श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः / पीडयन्तः इति श्रुतिहासेनाल्पीकुर्वन्त इत्यर्थः / भिन्नकीकृत्य षड्जम् इति भिन्नषड्जं कृत्वेत्यर्थः। प्रातःकाले 10 भिन्नषड्जो गेय इत्याम्नायादेवमुक्तम् / परिणतिम् इति अवसानमित्यर्थः / धांश इति धैवतांश इत्यर्थः / षड्जोदीच्यवतीजातेः इति / जातयो ह्यष्टादश / तथाहि मुनिः "षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी / षड्जोदीच्यवती चैव तथा स्यात् षड्जकैशिकी / स्यात् षड्जमध्यमा चैव षड्जग्रामसमाश्रयाः / 15 अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः // गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा / पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी / / मध्यमोदीच्यवा चैव नन्दयन्ती तथैव च / कार्मी रवी[ कारवी ]च विज्ञेया तथान्ध्री कैशिकी मता // " 20 इत्येतासां मध्ये या षड्जोदीच्यवतीजातिस्तस्याः सकाशादित्यर्थः / अन्यासु इति नृत्तनाट्यादिकासु / तत्र नृत्तकलाविरुद्धं यथा-रङ्गद्वारे विष्णुव्यतिरेकिणो देवतान्तरस्य स्तुतिनिबन्धनं, चार्यामुमातिरिक्तस्य, महाचार्यां पशुपतिव्यतिरेकिणः / आसां च रङ्गद्वारचारीमहाचारीणां लोके पुष्पाञ्जलिलास्यताण्डवशब्दैः ख्यातिः / किं पुनः कारणमुक्तव्यतिरिक्तदेवतान्तरस्तुतौ रङ्गद्वारादिषु कलाविरुद्धं काव्यं भवति / उच्यते यतो 25 भरतमुनेरियं व्यवस्था / "रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह / तथा चार्यां प्रयुक्तायामुमा तुष्टा भवेदिह // 5 1. रचनम् //