________________ 39 दोषदर्शनम् / विदूषकः सूत्रधारस्तथा वै पारिपार्श्विकः / यत्र कुर्वन्ति संजल्पं तच्चापि त्रिगतं मतम् // उपक्षेपेण काव्यस्य हेतुयुक्तिव्यपाश्रया / सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना // " कीर्तनाद् इति / कीर्तनं स्तुतिः / तस्माद् वाच्यारेतोः / तेनेतः परं शुष्काक्षर- 5 निवृत्तिः / गीतविधिः इति / गीतानामन्यतमं वर्द्धमानं वा / प्रयोगम् इति / प्रत्याहारादिरूपं नाट्यम् / नान्दिपाठकाः इति / सूत्रधारः पारिपार्श्विकौ च / अत्रायं भावः / प्रत्याहारादीनामुत्थापनं गीतकविध्यन्तानां तदीयस्वरूपफलाद्युपवर्णनात्मककाव्यप्रयोगात्मकं प्रत्याहारादिप्रयोगस्य चोत्थापनप्रयोजनं नाट्यस्योपादेयत्वादिप्रकटनम् / तेन समुचितप्रवृत्तिगुम्फितं प्रयोगोत्थापनात्मकं साभिनयं पाठ्यं प्राधान्येन प्रयोज्यमिति / 10 नित्यम् इति / अनेनास्याः अवश्यंभाविनं प्रयोगं निरूपयन्नन्याङ्गानां सद्भावविकल्पं ज्ञापयति / अत एवास्याः प्राधान्यादेतदुपलक्षितपूर्वरङ्गद्वारेणैव पुराणकवयो लिखन्ति स्म-नान्यन्ते सूत्रधारः इति / अहरहश्चैषा प्रयोगे प्रयोज्या / एषा च नित्यमेवंरूपैव / अन्यपाठ्यानामुत्थापनादीनां प्रयोगवशादन्यथापत्तिर्दृश्यते, न तु नान्दीपाठ्यस्येति नित्यशब्दस्याभिप्रायः / आदिग्रहणात् प्रेक्षापतिप्रभृतयः / 15 अत्र इति अस्यां दशायाम् / शुष्काक्षरैः इति / शुष्कैरक्षरैरनर्थकैः क्रन्दुमायैः / अवकृष्टा इति अवकृष्टाभिधाना / जर्जर-इति / जर्जरः सर्वविघ्ननिबर्हणं महेन्द्रप्रहरणं, तस्य स्तुतिप्रदर्शकः श्लोको जर्जर श्लोकः, तस्य दर्शिका / अभिनयः इति / अभिनीयत इत्यभिनयो रूपकविशेषः / रङ्गद्वारम् इति / अभिनयोऽवतार्यते संक्षेपेण तदर्थप्रयोजनादिनिरूपणपाठ्यद्वारेण, तथैव चाभिनयः क्रियते यत्र तद्रङ्गस्य भाक्निो रूपकस्य द्वारमिव रङ्गद्वारम् / 20 उत्थापनाङ्गे सामान्येन नाट्यमुत्थापितमिह तु रूपकविशेषेणेति भेदः / चारी इति / शृङ्गारप्रधानं भगवतो महादेवस्य देव्या सह यत्र चरितं वर्ण्यते काव्ये तत्स्तुतिप्रधाने तदेव यत्राङ्गहारचार्यादिना प्रदर्श्यते सा चारीति / महाचारी इति / रुद्रस्य त्रिपुरान्धकप्रभृतिप्रजाकण्टकचक्रं रोदयतो यत्कर्म तत् प्रध्वंसनादि, तदभिधायकं काव्यं यत्र तदुचितैरेवोद्धतैमण्डलाङ्गहारैः प्रयुज्यते सा महाचारी। 25 विदषकः इति / पारिपार्श्विकयोरेवान्यतरो विदूषकवेषभाषाचारः / यत्र इति / नागानन्दादौ नाटके / संजल्पम् इति / संजल्पो भविष्यन्नाटकविशेषविषयो हास्यमिश्रः / 1. झन्दु-ग // 2. नाटकस्यार्थ-! // 3. रूपवि-ग. // 4. कर्तरि // 5. देवी // 6. काव्यम् //