________________ कल्पलताविवेके अन्यथा न बध्नीयाद् इति / किन्तु ये नित्या भावास्तत्र वर्तमानेन निर्देशो' न्याय्यः / यथा अस्ति स्वकर्मनिरतप्रकटप्रमोद नित्याकुलाखिलजना भुवि पूरयोध्या / इति / 5 अतीतानां भूतेन यथा श्रीमानभूद् भूपतिरर्जुनाख्यः इति / अनागतेषु भविष्यत्कालेन यथा भविष्यत्यपरः कश्चित् तस्मिन् गिरिकुटुम्बके / हिमवानिव वन्द्यात्मा जाह्नवी यस्य निर्झरः // 10 एवं चराचरसचेतनाचेतनादिषु बोद्धव्यम् / देशकालनियमो यथा हिमस्य / तद्धिमवत्येव भवति / तत्रापि न सर्वदा सर्वत्र / कश्मीरेषु च पद्मानि वर्षासु जायन्तेऽन्यत्र तु वसन्ते शरदि च / एवमन्यदपि / निष्कारणग्रहणं कारणसद्भावे सत्यन्यथाबन्धस्यादुष्टत्वख्यापनार्थम् / यथा तीव्रातपाहतवपुर्विशति द्विजिह्वः पत्रान्धकारगहनं शिखिनः कलापम् / सिंहाङ्गना मृगवधूमवधूय शङ्का ___ मागतां रसनया प्रगयेन लेढि / तत्र हि सिद्धसन्निधानं कारणं विद्यते / अवाप्ताष्टगुणैश्वर्यसन्निधाने हि निरस्तशाश्वतिकविरोधाः प्राणिनो भवन्ति / तथा चाह-“तत्सन्निधौ वैरत्यागः" इति / यथा च 20 हनमति सागरतरणमर्जुने च स्वर्गपातालगमनम् / मारुतेहि या शक्तिर्देवपुत्रत्वं तत्र कारणम् / विजये तु देवमैत्री / शुकसारिकादीनां व्यक्तवाक्त्वे पुरुषप्रयत्नः / अथ कुतोऽन्यथाभिधानप्रसङ्ग इत्याह-अतिरसाद् इति / अतिरसहृतहृदयानां हि प्रायशो लचनं दृश्यते / तथा चोक्तम् गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य / रसिकत्वेनाकुलिता वेश्यापतयश्च कवयश्च // तव विरहे इति / अत्राश्रुलक्षणोऽर्थोऽतिशयेन मात्रां त्यक्तवान् / परा ह्यश्रुणो भूयस्ता वखार्दीकरणं न तु प्रलयजलवज्जगत्प्लावनम् / यथा च . 1. इयो ग. // 2. मेन ग. //