________________ दोषदर्शनम् विरमत घनाः किं वो वृष्टया मुधैव विसृष्टया व्रजत ककुभं कामप्यन्यां मनोरुचितामितः / न तदिह वनं नासौ मार्गो न तच्च शिलातलं विरहगलितैयन्नार्यस्य प्लुतं नयनाम्बुभिः / / अमृतमपि इति / यशःप्रभृतीनामर्थानां स्वभावान्यथोपनिबन्धे कविप्रसिद्धिः / कारणम् / अभिधेयस्य इति / अर्थस्य यदा तथ्यमन्यथात्वं तदनुपपन्नमपि उन्मादादिभिः कारणैरतिशयेनोपपन्नमित्यर्थः / उन्मादो निरुत्कण्ठमुन्मत्तत्वम् / यथा नभःखण्डं जलं शुष्कं गजगर्जितमिश्रितम् / भुक्तवैतत् पीयतां काष्ठं ततः स्वस्थो भविष्यति // मौख्यं जाड्यम् / यथा पाण्डित्यमहो कीदृग् वाल्मीकेयेन भारतं विहितम् / / भीमस्य च कीदृग् बलमिन्द्रजिदपि मारितो येन // उत्कण्ठा प्रियजनं प्रत्यौत्सुक्यम् / यथा मेघदूतकाव्यम् / सेउल्लियं इति / स्वेदादितम् / देशोद्रीति इति / चराचराणाम् इति च / आद्यस्योत्तरार्द्धं द्वितीयस्य च चतुर्थपादो विद्याविरुद्धे व्याख्यास्यते। युक्तिविरुद्वत्वेऽपि इति / गुणेभ्यस्ते इत्यादेरर्थस्य 15 युक्तिविरुद्धत्वप्रतीतये ससङ्कोचश्चन्द्रादिवेत्यादीनां त्रयाणामर्थानां युक्तिविरुद्धत्वेऽपि विदग्धोक्त्योपमानत्वेन प्रतिपादनाद् गुणत्वम् / तत्र इति / " गुणविपर्ययात्मानो हि दोषाः” इति कान्तिगुणस्वरूपे उपदर्शिते / तद्विपर्ययात्मनोऽतिमात्रस्य स्वरूपं सम्यग् विज्ञायत इति धर्मिद्वारेण कान्तिगुणमेवादावभिधत्ते-वार्ताभिधानेषु इति सद्भूतवस्तुस्वरूपमात्रोक्तिषु / वर्णनासु इति असद्भूतमात्रवस्तुस्वरूपकीर्तनासु / कान्तम् इति कान्तिगुणयुक्तम् / काव्यं कर्तृ। कान्तमेव व्याचष्टे- जगतीत्यादि। लौकिक इति अनतिमात्रमित्यर्थः / तद इति कविप्रतिभामात्रनिर्मागरूपमतिमात्रमित्यर्थः / अत्युक्तिरिति इति अतिशयोक्तिबुद्ध्या / देवधिष्ण्यमिव इति / अत्र कस्यचिन्मुनेः सद्भूतस्वरूपमात्रोक्तावपि देवधिष्ण्यमिवेत्येवंरूपं' कविप्रतिभामात्रनिर्माणोऽत एवाध्यारोपित इवेति प्रचुरलोकागोचरोऽप्यर्थः कान्तोऽयमिति विदग्धजनेनाभ्यनुज्ञातत्वादतिशयोक्त्योप- 25 वर्णितः / अल्पं निर्मितम् इति / अत्रापि स्तनजृम्भणस्यासद्भूतमात्रस्वरूपवर्णनेऽपि गगनाल्पत्वनिर्माणादिरर्थोऽत्यन्तमसद्भूतोऽप्युपवर्णितः / अनतिमात्रं कीदृग् इति / अनतिमात्रापरपर्यायं कान्तं यत् पूर्वमुपवर्णितं तस्योदाहरणप्रदर्शनाय प्रश्नोऽयम् / 1. रूपः, ख, ग. //