________________ दोषदर्शनम् ___ एवमन्यदपि विज्ञेयम् / तदाह-इत्यादीत्यादि / इतिरेवमर्थे / आदिशब्दः प्रकारे। एतद्विज्ञाय इति / एतच्छब्देनानुचितत्वं निर्दिश्यते / महीयोयत्नग्रहणे अस्य दोषस्य दुर्लक्षत्वसूचनार्थे / महाकवीनामतिदुर्लक्षोऽयं दोषस्तदेतत्परिहारे महान् प्रयत्नः कर्त्तव्य इत्यर्थः / तद्यथा परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः। मुखैश्चलत्कुण्डलरश्मिरञ्जितै नवातपामृष्टसरोजचारुभिः / / इति / गोपीनां हि ग्राम्यत्वात् कनककुण्डलान्यनुचितानि / तथात्वे इति / स्थलत्वलक्षणे विशिष्टेधर्मे हेतुभावमर्थो यातीति सम्बन्धः / युक्त्या 10 बाध्यते इति / धूलेर्बहलत्वलक्षणोऽर्थः स्थलत्वे हेतुतां यात्येव / किन्तु स्थलस्य गगने निराधारत्वादवस्थानमसंभाव्यमेवेत्यनयोत्तरकालभाविन्या बलवत्या युक्त्या स्थलोपजननं बाध्यते / स्थलोपजननकार्यबाधायां च हेतुरेव बाध्यत इत्यर्थः। कथं दौत्यम् इति / सन्देशविशेषप्रापणार्थं हि दूतसम्प्रेषणम् / न चैते सन्देशविशेषान्प्रतिपादयितुमलम् / यदि चोत्कण्ठया इति / उत्कण्ठावानुन्मत्त इव यदि मेघादीन् 15 दूतीकुर्यान्न तदा कश्चिद्दोषः / यदि पुनरनित्यदोषत्वमस्य नेष्यते तदा लक्ष्यव्याघात इति दर्शयति-भूम्नेदं सुमेधोभिः प्रयुज्यत इति / स्वभावाद् इति / ल्यब्लोपे पञ्चमीयम् / स्वभावमाश्रित्येत्यर्थः / ततश्च देशवस्तुस्वाभाव्यान्यथावर्णनेऽयं दोष इत्युक्तं भवति / षोढेह भिद्यत इति / युगसंवत्सरादीनामुपलक्षणपरमेतत् / ऋतुविशेष इव युगविशेषे हि भावानामन्यथाभावाः प्रादुर्भवन्ति / यथा पुरुषादीनामायुःसंख्याभेदादयः। संवत्सरेऽपि 20 कचित् किञ्चित् निमित्तादि नियतं भवत्येवेति / - स च तव्यवहारोऽत्र इति / व्यवहारशून्येन निश्चेष्टेन लोकेन व्यवहारभावात् लोकव्यवहार एवात्र लोकशब्देन विवक्षित इत्यर्थः / निमित्तम् इति अश्वप्राचुर्यलक्षणम् / "निमित्ततो यत्तु वचो लोकातिक्रान्तगोचरम् / मन्यन्तेऽतिशयोक्ति ताम्" इति हि वक्ष्यते / सर्वः इति / सर्वोऽर्थो द्रव्यगुणक्रियाजातिलक्षणः / देश-इति / अयमर्थोऽस्मिन् देशेऽस्मिंश्च काले भवति न देशान्तरे न कालान्तर इति / तम् इति अर्थम् / 1. टे ग.॥ 25