________________ 24 कल्पलताविवेक भावान्न श्लेष इत्यर्थः / तत्मसिद्धौ इति तेषां धर्माणां प्रसिद्धौ / क्रमेणानेन इति / अनन्तरपाठादनेनेत्यनेन न्यूनोपमापवादः परामृश्यते। यथा तत्र - प्रसिद्धत्वाद्धर्माणामदुष्टत्वं प्रतिपादितं तथानेनैव न्यायेनात्रापि धर्माणामविवक्षातो न दुष्टत्वमित्यर्थः / साधारण्येनोपात्तनैव धर्मेणोपमाया विवक्षितत्वात् / विशेषस्तु इति / विशेषः 5 पुनरयमनुपात्तेंऽशेऽनुमानं वात्र व्याप्रियते इत्यर्थः / उपमानधर्म-इति उपमानधर्मोद्घट्टन मेवानुमानम् / अरीतिमद् इति रीतयो वैदर्भीप्रमुखा यत्र न सन्ति / कचित् कस्यचिद्रुणस्याभावात् / समग्रगुणा हि वैदर्भी / कतिपयगुणा गौडीया पाश्चाली चेति / श्लेषस्य इति / भिन्नानामपि पदानामेकपदप्रतिभासहेतुरनतिकोमलो बन्धविशेषः श्लेषस्तस्य / आलि इति हे आलि सखि / भवेत् स एव इति / समताया विपर्ययरूपो 10 यः सन्दर्भः स एव विषमो भवेदित्यर्थः। अप्रसन्नम् इति / अमीषामुद्देशक्रमपरिहारे कारणं चिन्त्यम् / अनङ्गक-इति / अत्र शब्दानामनतिप्रसिद्धार्थत्वादप्रसन्नत्वम् / विरहे इति / अत्र उक्तेाम्यतया कान्तिहीनत्वम् / तद्विपर्ययम इति ओजःप्रभृतीनां विपर्ययः / स्मरः खर इति / अत्रासमस्तपदाभिधानेनार्थस्य सौकुमार्येण च विपर्ययस्योभयप्रधानता / नखिनां च इति / अत्र चकारषष्ठ्योरनिर्वाहणामधुरार्थत्वेन च विपर्यय उभयप्रधानः / दीर्घपुच्छ: 15 इति / अत्रापुष्टानुत्कृष्टविशेषणत्वेनानुदारार्थत्वेन च शब्दार्थप्रधानो विपर्ययः / क्रमेणैवापवादानाह-श्लिष्टमस्पृष्टेत्यादि / दीप्तमिति इति चित्तस्य विस्ताररूपदीप्तिजननं दीप्तमोजस्वीत्यर्थः / मा भवन्तम् इति / अत्र धाक्षीदित्यादयोऽतिप्रसिद्धत्वात् प्रतीयन्ते / कामम् इति / अत्र ग्राम्यत्वेऽपि ग्राम्यार्थस्य विदग्धोक्त्या तिरस्कृतत्वाद्गुणत्वम् / समस्तम् इति समासवत् / असमस्तम् इति समासरहितम् / समस्तरीत्या इति समस्तायाः 20 समासवत्याः रीतेर्गौडीयायाः / रीत्यन्तर-इति रीत्यन्तरस्य वैदर्भीलक्षणस्य / इति वाक्यदोषाः / [अथ अर्थदोषाः ] अपुष्टा इति। यत उपात्ता अपि स्वरूपमात्रप्रतिपादकत्वेन न किञ्चित् साधयन्तीति / न त्वसङ्गता इति / अनेनैवंविधानामर्थानामसङ्गतत्वमभिमन्यमानेन भट्टरुद्रटेन दोषस्यास्य 25 यत् असम्बद्ध इति नाम विहितं तन्निराकरोति / प्राप्त इति अर्थादभिधातुम् / य इति अर्थो बहुफेनत्वादिः / प्रक्रान्तप्रसङ्गाद् इति प्रक्रान्तो यो जलध्यादिस्तदभिधानप्रसङ्गात् / बहुफेनत्वम् इति असम्बद्धमित्यर्थः / जलध्युल्लङ्घनेन यः कीर्तेरतिशयः प्रक्रान्तस्तत्रानुपयोगित्वात् / यदि हि बहुफेनत्वं समुद्रस्य दुस्तरत्वे हेतुर्भवेत्तदा तद्विशिष्टस्य तस्योल्लङ्घनं कीर्तेरतिशयाय स्यात् / न च बहुभिः फेनैः समुद्रो दुस्तरोऽपि तु स्वभावादेव /