________________ दोषदर्शनम् यो यस्य इति यस्याग्न्यादेयों गुणक्रियादिः / तद्वान् इति सोऽव्यभिचारी गुणादिविद्यते यत्र स तद्वानिति / कविरुचीनाम् इति कवीनां रुचयः प्रतिभारूपाः प्रभाः। ता गम्भीर-इति / ताः कविरुचयो गम्भीरकाव्ये सर्गबन्धलक्षणेऽनभिनेये परिचयमागता इतरस्मिन्नभिनेये दशरूपक इव कथं प्रसन्ना भवन्तु। न भवन्त्येवेत्यर्थः / शक्तिमात्रख्यापनफलो हि सर्गबन्धः। तथा चोक्तम्-“यस्तु सरिदद्रिसागरनगतुरगपुरादिवर्णने यत्नः” इत्यादि। 5 एतच्च कल्पलतायामेव यमकेषु निदर्शयिष्यते। विरुद्धार्थम् इति परस्परं विरुद्धावौँ यत्र / विरुद्धलक्षणार्थमाह-विरुद्धं तूपदिश्यत इत्यादि / आतिष्ठ-इति। आचर उपासितेत्युदाहरणान्तरप्रदर्शनं कल्पितोदाहरणशङ्कानिरासार्थम् / एतदुक्तं भवति / लक्ष्ये शतश इत्थंभूतानि काव्यानि दृश्यन्ते / यथा इत्येकशः प्रतिदिनं विहितव्यवस्थो यान् भक्षयत्यहिपतीन् पतगाधिराजः / यास्यन्ति यान्ति च गताश्च दिनैर्विवृद्धिं तेषाममी तुहिनशैलरुचोऽस्थिकूटाः // . अत्राविरामविवक्षया कालमात्रलक्षणं वर्तमानत्वं, न पुनर्नित्यप्रवृत्तकाललक्षणम् / तेन भूतभविष्यद्विवक्षे विरुध्येते इति / गता यास्यन्तीत्येतयोर्यान्तीत्यनेन विरोधः / यत्र 15 नित्यप्रवृत्तकाललक्षणं वर्तमानत्वं तत्रेमे न विरुध्येते। यथा ऊढाश्च वहन्ति च वक्ष्यन्ति च महानद्य इति / नैवमुक्ते श्लोके सर्वकालभाविन्या अस्थिकूटवृद्धेश्योगादिति / यथा च त्वरितमथ स दैत्यगन्धहस्ती ललितगतिर्ललनाकरेणुयूथम् / समद इव विवेश गन्धहस्ती स्तिमितघनौघनिभं करेणुयूथम् // . अत्रोपमारूपकयोरेकत्र समावेशविरोधाद्विरोधः / अथ दैत्यगन्धहस्तीत्यादौ नैवं विवक्षितम् / दैत्य एव गन्धहस्ती, ललना एव च करेणवः / किं तर्हि दैत्यो गन्धहस्तीव, ललना करेणव इवेति / एवमप्येकार्थदोषः / सर्वथात्र श्लोके व्यर्थैकार्थदोषयोरन्यतरस्योप- 25 निपातः परिहर्तुं न शक्यत इति / सातमिति इति / यतस्तस्यासम्बद्धस्य परमतस्याश्लिष्टवचनं सङ्गतं सदृशम् उपमानभूतमतस्तस्यासम्बद्धत्वप्रतिपादनाय तत् कथनम् / असम्बद्धस्य ह्यसम्बद्धमेव सदृशम् /