________________ दोषदर्शनम् तेन प्रकृतिस्थपदयोगः कोमलपदयोगः कठोरपदयोगो वा यत्रेतरव्यामिश्रणेन विभिद्यते विच्छिद्यते, अथवा ग्राम्यपदयोग उपनागरपदयोगो नागरपदयोगश्च यत्रेतरव्यामिश्रणेन विच्छिद्यते तदपदमित्यर्थः / तत्र प्रकृतौ तिष्ठन्तीति प्रकृतिस्थानि / इतरजनप्रसिद्धानि न कोमलानि न च कठोराणीत्यर्थः / कोमलानि मृदूनि कठोराणि परुषाणि ग्राम्याणि अतिप्रसिद्धानि अविदग्धानीत्यर्थः / उपनागराणि नात्यप्रसिद्धानि विदग्धाविदग्धानीत्यर्थः। 5 नागराणि नातिप्रसिद्धानि विदग्धानीत्यर्थः / आउज्झिय इति / अत्र पूर्वार्द्धपदानि पिक्खंतहेति च प्रकृतिस्थानि / लाउलकलणियाहेति कोमलानि / हा कस्स कंदेमीति च कठोराणि / प्रकृतिस्थेषु प्रसिद्धेरुत्कटोऽतिशयः, प्राम्येषु त्वनुत्कट इति विशेषे स्थितेऽपि प्रसिद्धयतिशयमात्रकृतमुभयेषां साम्यम् / तथा किञ्चित्कोमलत्वमुपनागरेषु किञ्चित्कठोरत्वं नागरेष्वस्तीति कोमलोपनागराणां कठोरनागराणां 10 च सादृश्यमस्तीति प्रकृतिस्थादित्वेन निदर्शितानामपि आउझियेत्यादिपदानां ग्राम्यादित्वं सुभणमित्यत एवाह-तदेतत् प्रकृतिस्थेत्यादि / __भाषाचित्र इति / उपलक्षणपरमेतत् / तेन शब्दगुणे प्रौढावप्यनुज्ञेयमित्यर्थः / हा तो इति इति जोजलदेओ इत्यन्तम् / नैवेति इति भूतल इत्यन्तम् / ता किमिति इति श्रूयत इत्यन्तम् / अत्र वपुरित्युपनागरं शेषाणि ग्राम्याणि / पदमिति इति विवाहोत्सव 15 इत्यन्तम् / अत्र रूपपतिनेति नागरम् / उत्सव इत्युपनागरम् / शेषाणि ग्राम्याणि / एसें इति इति वोल्लुपर्यन्तम् / ग्राम्यादिभिः इति / आदिशब्दादुपनागराणि गृह्यन्ते / हस्तेति इति ईक्ष्यत इत्यन्तम् / अत्र हस्तेति ग्राम्यम् / शेषाण्युपनागराणि / ग्राम्याणि इति / आहत[?] कामः किल श्रूयते इत्येतानि / उपनागराणि इति / नैवे मदनः साक्षादयं भूतले, उत्सवकटकः किं दर्पणेनेक्ष्यत इत्येतानि / .. 20 शशिलेखेव इति / अस्मिन्नुपमावाक्यद्वये यदा पूर्वोक्तधवलत्वधर्माभिसम्बन्धस्तदैव दोषोऽयमित्यर्थः / यस्य इति / अत्र श्वसन्निति साधारणे धर्मे उपमेयपरत्वेन वाक्यभेदं विनोपमानेन सम्बध्यमाने'ऽपि नोद्वेग इति चिन्त्यम् / कोमलापाटलौ इति / यथात्रेतरेतरयोगेनोपमानोपमेययोरेकशेषेण च तद्विशेषणयोः समुदायेनाभिधानादिवादिना विनाप्युपमात्वं वक्ष्यते तथा प्राज्यप्रभाव इत्यत्र द्योतकलोपेऽपि नेमेन्येषां चापमा प्रतीयते / अभि- 25 धानम् इति तन्त्रेणेत्यर्थः / यथा प्राज्यप्रभाव इत्यत्र तुल्यधर्माणाम् / .. यत्र तु इति / प्रसिद्धचनुरोधेनार्थयोः परस्परं प्रतीयमानाभिधीयमानभूयोऽवयवसामान्ययोग उपमेति हि प्रवक्ष्यते / तेन कोमलेत्यत्रोपमैव / सदृशयोरर्थयोस्तन्त्रेणाभिधाना 1. नैष ख. // 2. -नो- क ख. // .. ...