________________ 10 कल्पलताविवेक त्रापि मुद्राङ्कस्य लग्नत्वादिधर्मान्तरप्रतिपादनं यत्र तत्रैव कुटिलाताम्रच्छवित्वमपि प्रतिपादयितुं युक्तं नान्यत्रेत्यस्थानपदतैव / विवक्षितधर्मविशिष्टो हि मुद्राङ्कः करपल्लवेनेत्यतः पश्चादप्युष्यमानो न कामपि क्षतिमादधातीति / त्वं शब्दाद इति / समुच्चयद्योतको हि चकारः समुच्चीयमानार्थादनन्तरमेव 5 प्रयोक्तव्य इति हि क्रमः / एवं पुनःशब्दोऽपि व्यतिरिच्यमानार्थानन्तर्येणैव प्रयोगमर्हति / अन्यत्र तु प्रयुज्यमानोऽक्रमदोषं प्रयोजयति / यथा . उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः / - अत्र हि पुनः शब्दस्तेनेत्यनन्तरं प्रयोक्तव्य इति / श्रीनियोगादिति इति / तथा चोक्तम्' उक्तिस्वरूपावच्छेद--फलो यत्रेतिरिष्यते / न तत्र तस्मात् प्राकिञ्चिदुक्तेरन्यत् पदं वदेत् / / उपाधिभावात् स्वां शक्तिं स पूर्वत्रादधाति हि / न च स्वरूपावच्छेदः पदस्यान्यस्य संमतः // शक्तिम् इति अवच्छेदनसामर्थ्यम् / इतिनैवेतरेषामप्यव्ययानां गतिः समा / ज्ञेयेत्थमेवमादीनां तज्जातीयार्थयोगिनाम् // यतस्ते चादय इव श्रूयन्ते' यदनन्तरम् / तदर्थमेवावच्छिन्धुरासमञ्जस्यमन्यथा // अथानन्तर्यनियमस्तेषामर्थोचितीवशात् / 20 अन्यतस्तर्हि तत्कार्यसिद्धेस्ते स्युरपार्थकाः / / अथौंचितीवशाद् इति / अन्यत्र पठितानामपि भवेदिति शेषः / अन्यत इति अर्थसामर्थ्यात् / कैश्चिदेव हि केषाञ्चिदूरस्थैरपि सङ्गतिः / न जातु सर्वैः सर्वेषामित्येतदवसीयताम् // इति / .. 25... प्रकते रसे इति बीभत्से / विभिन्न-इति / आदिग्रहणात् कोमलकठोराणि ग्राम्योपनागरनागराणि च गृह्यन्ते / युक्तिशब्दश्चात्र प्रकृतिस्थादिभिः प्रत्येकमभिसम्बध्यते / 1. उक्तं च ग // 2 श्रयन्ते ख // 15