________________ दोषदर्शनम् यथा __ ताला जायंति गुणा जाला ते सहिअएहि घेप्पंति / रविकिरणाणुग्गहियाइं होंति कमलाई कमलाई / / यथा च एमेय जणो तिस्सा देइ कवोलोवमाए ससिबिम्बं / परमत्थवियारे उण चंदो चंदो च्चिय वराओ / इति / अत्र ह्युत्कर्षापकर्षमात्रविवक्षया परिकल्पितभेदेऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेणेकेनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार एवायमिति मन्तव्यम् / केवलं पर्यायप्रक्रमभेदनिवृत्तये शशिबिम्बमित्यत्र चंदमिणमिति पाठः परिणमयितव्यः / सुखमीहितुं वेति युक्तमिति / एवं च तुल्यकक्ष्यत्वेन विकल्पार्थवृत्तेर्वाशब्दस्य न 10 विषयोऽयमित्यपि परिहृतं भवति / यथा च रुदता कुत एव सा पुनर्भवता नानुमृतेरवाप्यते / परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथाः शरीरिणाम् / / इति / अत्र हि कुत एव तु सानुरोदनादिति युक्तः पाठः / इह तु न दोषः / / पृथ्वि स्थिरीभव भुजङ्गम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः। 15. दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षी देवः करोति हरकार्मुकमाततज्यम् // अत्र हि पृथ्यादिविषयः प्रैषलक्षणोऽर्थः कविना वक्तुं प्रक्रान्तः प्रत्ययभेदेऽपि नियूंढः / कम्पमानो इति इति / अत्र तिङन्तस्य प्रक्रमभेदः प्रस्तावादुपदर्शितः / अनुभवस्मृतिक्रमश्च इति / अनुभूयमानार्थापेक्षयोदयावस्थत्वेनानुभवः प्रथमभावी अनुभूतार्थ- 20 विषया च स्मृतिः पश्चाद्भाविनीत्यनयोः क्रम इत्यर्थः / अनुभवक्रमविवक्षा इति / प्रथमपक्षोल्लेखोऽयम् / अथाक्रमम इति / अत्र पदस्यास्थाननिवेशित्वेऽपि क्रमाभाववैशिष्टयं विवक्षितमिति अपदस्थपदादस्य भेदः / तत्र हि काचिन्न विजहाविति वा न विजही काचिदिति वा वाच्यम् / केवलं नमें उत्तरवर्त्तिना किशब्देन योगः परिहार्य इति / लानः केलिकचेत्य- 25 1. कम्पमाना इति... अपदस्थपदादस्य भेदः ( पृ 21, पं. 19 ) अयं पाठः ग. पुस्तके “गमयेदित्यर्थः” " रसान्तर” इत्येतयोर्मध्ये (पृ 20, पं. 25 ) निवेशितः // 2. अपदस्थपदस्य क. // 3. न क // 4. किमु ख. //