SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 20 कल्पलताविवेके इत्यादिना सूत्रेण जैमिनिना यः प्रतिपादितस्तदनुसारेणात्र तैरिति विधेयतया प्राधान्येन क्षपाचारिभिरिति यत् प्रत्याययितव्यं तत्परत्वेन यच्छन्दनिर्देश्यानामर्थानामनुवाद्यत्वादेव गुणभूतानां न परस्परं समन्वयः, प्रधानानुयायित्वेन समत्वात् / अतः क्षपाचारिणामिति विशेष्याभिधायिपदोपादाने येषां येषामिति यच्छन्दद्वये सामानाधिकरण्याद्भवति विशेष्यस्य 5 प्रतीतिः / यैरित्यत्र तु सामानाधिकरण्येन यत्क्षपाचारिभिरिति विशेष्याभिधायि पदं तदन्तरेण कथं विशेष्यमवगम्यते / विभक्तिविपरिणामेन वा अध्याहारेण वा। यैः क्षपाचारिभिरिति यत् समन्वयपरिकल्पनं स शास्त्रीयो न्यायः / एष च पञ्चसु काव्यप्रभेदेषु न युक्त इति ह्युक्तचरं तत्र तत्रेति / यदि तु क्षपाचारिणामित्यस्य स्थाने क्षपाचारिभिरिति पठ्येत ततस्त्र योऽपि यच्छन्दार्थाः समशीर्षिकया धावित्वा प्रधानेन तैः क्षपाचारिभिरित्यनेन प्रेतिस्वमञ्जस10 तयैव सम्बन्धमनुभवेयुः / सङ्ग्रामाङ्गण इति / अत्र द्वितीयपादे येन येनेत्यादि यत् प्रतिपादितं तस्याहत्य समनन्तरमेवे दूषणं देयमिति मनसि सम्प्रधार्यात एव च गजनिमीलिकयैव तत्तावदवधीर्य प्रथमं दूषणपक्षद्वयमाशङ्कापुरःसरं सामान्येनोद्भावयति अत्रेत्यादिना प्राप्तमित्यन्तेन / तत्राकर्णनक्रियाकर्मत्वं चेत् कोदण्डादीनां पदार्थानां तदा कोदण्डं शरानित्यादि प्राप्त15 मित्येकं दूषणम् / अथ कोदण्डादिपदार्थसमुदायरूपस्य वाक्यार्थस्य कर्मता तर्हि अश्रूय माणायां क्रियायाम् “अस्तिर्भवन्तीपरः” इतिन्यायेन प्रयुज्यमानया सन्तीतिक्रिययान्वितस्य वाक्यार्थस्य कर्मत्वे कोदण्डः शरा इत्यादि प्राप्नोतीति द्वितीयम् / उत किमेवमसत्प्रलापरूपैराशङ्कितोत्तरैः, येन येनेत्यादिद्वितीयपादे यदुक्तं तदुल्लिखितो वाक्यार्थः कर्मभावेनाभिप्रेत इत्युच्यते। हन्त, दत्तस्तर्हि जलाञ्जलिः शब्दार्थवेदितायाः। न हि यच्छब्दार्थस्तद्विशेषणं वा 20 कोदण्डादिस्तज्जैाहियते, येन यच्छब्दसमन्वयः कोदण्डादिभिः स्यात् / आहोस्विदन्तरा केन केनेत्यादिप्रश्नमुद्भाव्य समन्वयः करिष्यते / दिष्ट्या वल्गन्तु आयुष्मन्तः। सहृदयाः वयमप्येतदेवोपालभेमहि कुतः केनेत्यादिप्रश्नप्रतिपादकः शब्दोऽत्र नोपात्त इति / यस्य प्रविशेद् इति / यस्य महतो वाक्यस्य सम्बद्धार्थत्वेन गर्भकल्पमल्पं वाक्यमन्तः प्रविशेत्तद्यथार्थं गर्भितम् / का तर्यस्य दोषरूपतेत्याह-गमयेदित्यादि / 25 यावत्तद्गर्भवाक्यं पृथक् न कृतं तावद् महावाक्यं निजमर्थ कष्टकल्पनया गमयेदित्यर्थः / रसान्तर इति / रसविशेषेण तिरोधीयमानं सद् वाक्यं गर्भितमिष्टमित्यर्थः / गता निशापीति तु युक्तमिति / एवंविधस्य प्रक्रमाभेदाख्यस्य शब्दौचित्यस्य विध्यनुवादभावप्रकारत्वोपगमात् / 1. प्रत्यात्मम् // 2. दूषणद्वयानन्तरम् // 3. यच्छब्दार्थस्य सामान्यम् // ..
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy