________________ दोषदर्शनम् . अत्र हि य एवैकेन यथाशब्देन तथाशब्देन मन्दशब्देन भीतशब्देन मत्तशब्देन चार्थः स एव द्वाभ्यामिति प्रकारार्थत्वे द्विःशब्दस्यानर्थक्यं स्यादिति / - अन्ये त्वाहुः-सत्यमेतद्यथा चोदितम् / किन्तु यः कश्चिन्मन्दबुद्धिः पुनः प्रयोगं पश्यति स बुध्येतानर्थकमेतत् पदं सरूपत्वादिति / तं प्रति नानारूपोऽभिधान्यापार एव पुनः प्रयोगस्य कथ्यत इति सर्वमेवानवद्यम् / यच्च इति / यत्पुनर्वस्त्विति सम्बन्धः / वा शब्दोऽपवादप्रकारान्तरसमुच्चयार्थः / न प्रतिपद्येत इति अन्यचित्ततयेत्यर्थः। तत्र इति वस्तुनि। किं चिन्तयसि इति / कश्चिमित्रमाह-सखे इदमीदृक् सुन्दरं रम्यं स्त्रैणं स्त्रीसमूहं पश्येति / तेन त्वन्यत्र गतचित्तत्वान्न श्रुतम् / अतः स पुनराह-किं चिन्तयसीत्यादि / तत्र पश्य पश्येति पदं पुनरुक्तम् / नन्वित्यादि तु वाक्यम् / ननुरभिमुखीकरणे / 10 अन्याभिधेयमपि इति / उक्तात् प्रशंसालक्षणाच्चार्थादन्यदभिधेयं वाच्यं यस्य पदस्य तदन्याभिधेयम् / अपिशब्दादुक्ताभिधेयमपि / अन्यार्थस्य हि प्रकृतार्थानुपयोगादाधिक्यं स्यात् / स्वाभिधेयस्य तु पदान्तरेणैव तदर्थस्योक्तत्वात् पौनरुक्त्यमिति / यथा मुनिशार्दूलः कर्णतालः केशपाशो नृपपुङ्गवश्तवृक्षो मलयाचल इति / अत्र शार्दूलादिशब्दानां वृक्षादिशब्दानां च प्रशंसार्थत्वान्नाधिक्यपौनरुक्त्ये इति। 15 मेरुमहीधरस्य इति / नन्वत्र महीधरशब्दः सामान्याभिधायी मेरुशब्देन विशेषेऽवस्थाप्यत इति विशेषणविशेष्यभावे तत्समासे च सति कीदृशमत्र पौनरुक्त्यं प्रशंसार्थत्वं वा / नैतदस्ति / “संभवे व्यभिचारे च सति विशेषणविशेष्यभावो न्याय्यस्तत्समासो वा" इति / अत्र केशहस्त इत्यत्र च "प्रशंसावचनैश्च” इत्यनेन मयूरव्यंसकादित्वात् “सुप्सुपा" इति वा समासः कार्य इति सर्वमनवद्यम् / 20 ताला इति तदा / जाला इति यदा / तदिति इति / अत्र तच्छब्दस्तस्मादर्थे, सच मसृण इति विरचय इति च वाक्यद्वये सम्बद्धः। यत इति चाध्याहृत्य भूरिति धर्म इति च वाक्यद्वये सम्बन्धनीयम् / गुणानां च इति / अग्न्याधानवैकङ्कतपात्राणां पवमानहविषां च न परस्परेण 25 सम्बन्धः / आन्याधानं ह्यग्नेरेव गुणः संस्कारार्थः / पवमानहवींष्यप्यग्नेरेव गुणभूतानि / गुणानां च समत्वमेव प्रधानानुयायित्वादित्येवं रूपो न्यायः "गुणानां च परार्थत्वाद! 1. - लक्षणादर्था-ख. // 2. उकाभि- ग. // 3. अनिराधीयते येषु पात्रेषु // 4. वृक्षविशेषः // 5. पवित्र //