________________ . कल्पलताविवेके 'न सा' इत्यत्र ‘सोपान' इत्यत्र च निदर्शनद्वये साधनोन्नतिरिति पेलवं धनमिति सोपानपथमिति च सन्धिवैरूप्यविशेषस्याश्लीलत्वस्येतरत्रैतस्य वाक्याश्लीलत्वस्य च विद्यमानत्वात् / वाच्यमहिम्ना इति / वाच्यमुदाहरणे कस्यचिद् विदुषो नृपतेश्च सदनम् / तत्र च 5 नृपतिसदनं नृपतिसम्बन्धाद् विशालस्वर्णभाजनादिपरमसमृद्धिसम्पन्नमेव प्रतीयते / न तु बालकसम्बन्ध्यार्त्तस्वरपात्रतादिदारिद्रयातिशयवत् / अत एवातिनिःस्वेन केनचिद्विदुषा स्वसदनसमनापादनव्याजेन नृपतिभवनस्य स्तुतिः कृतेति पर्यवसितोऽर्थः / श्रुतेः इति / सामान्यधर्मा यत्र श्रूयन्ते न तु विशेषाः श्रुतिपथमवतरन्ति तत्रोभयविशेषस्मरणनिबन्धनं विमर्शज्ञानं प्रकृतयोईयोर्वस्तुनोरेकत्राप्यलब्धप्रतिष्ठमुच्यते, न पुनरुभया10 लम्बनम् , उभयालम्बनत्वे निर्णयस्वरूपापत्तेः / अनेन तु ग्रन्थकारेणात्र श्लोके 'न सम्माति' इत्युभयविशेषस्मरणं संशयनिमित्तत्वेन नोपात्तं, न पुनस्तदनभिमतम् / तस्मिन्नसति संशयायोगात् / न लौकिक इति, न च यत्र इति च / प्रथमो हि पक्षो रसभाव-तदाभासालङ्काराणां विषयः / द्वितीयस्तु ससन्देहालङ्कारस्येति / एतच्च ससन्देहालङ्कारे कल्पलतायां वितनिष्यते। 15 भेद-संसर्गाभ्यां ज्ञानम् इति। भेदेन ज्ञानमिदं ध्येयम् एतद्गुणमेतक्रियमिति / यथाऽयं गौः शुक्लश्चल इति / संसर्गेण ज्ञानमिदं ध्येयमिदमपि ध्येयमिति / यथायं गौरयमपि गौरिति / तस्मानिष्क्रान्त इति प्रत्यक्षमेवैकं तत्र व्याप्रियत इत्यर्थः / तद्धचशेषविशेषावच्छिन्नं परेभ्यो व्यावृत्तं ध्येयमभिन्नासंसृष्टत्वेन गोचरीकरोति / यथा-गोः स्वलक्षणमिति / मायेव इति / ऐन्द्रजालिकविद्येव भद्रा दृष्टेरॉच्छेदकारिणीत्यर्थः / बभूव इति / एतत् 20 पदं स्वरूपेणोपमानैः सम्बध्येत, विभक्त्यन्तरपरिणामेन वा ? तत्राचे विकल्पे देवताग्निशिखे न बभूवतुः, सर्वदा वर्तमानत्वात् / द्वितीये विकल्पे मायालक्ष्म्यौ तस्य राज्ञो बभूवतुः / नानयोरविरामलक्षणो वर्तमानः सम्भवतीति भवनक्रियामात्रमविवक्षितविभक्त्यर्थमुपमानोपपेययोः कल्पनीयमित्ययमपि शास्त्रीयन्यायो न युक्त एवेत्यर्थः / / सा चेति इति / धर्मपदानां यथायोग सम्बन्धलक्षणा भवनक्रियामात्ररूपा च 25 व्याख्येया। वेणुदारेरिति च इति / वेणुदारिसम्बन्धित्वेन च तां दुहितरमवगमयन्ति / वचनाद् इति वेगुदारिवाचकात् / क्लिष्टम् इति। आलूनविशीर्णपदतया व्यवहितार्थप्रत्ययकारि यदिति / स्वसम्बन्ध्यन्तरायेण इति स्वसम्बन्धिव्यवधानेनेत्यर्थः। भिन्नार्थमपि तद इति तदप्यन्यार्थभिन्न भिन्नार्थ ज्ञेयमित्यर्थः / -- 1. अन्येषु भागेषु // 2. विशेषणमुपसजनम् ? // 3. संशयज्ञानम् // 4 तद्धि शेष-ख // 5 आक्षेप-॥ 6. पूर्वमालुनानि तदनु विशीर्णानि //