________________ दोषदर्शनम् अयमेव न्यक्कारः इति / अत्र इदमर्थ-न्यक्कारयोरनुवाद्यविधेयभावो विवक्षितः, स च रूपणास्वभाव इति रूप्यस्यानुवाद्यस्येदमर्थस्य प्रागुपादानं न्याय्यम् / पश्चाच्च रूपकस्य विधेयस्य न्यकारस्य / विध्यनुवादभावे हि यथाश्रुतपदार्थसम्बन्धनिबन्धनोऽर्थप्रतीतिक्रम इति न तंत्रानुवाद्य-विधेययोः पौर्वापर्यविपर्ययः कर्तुमुचितः / अन्यथा विवक्षितार्थाप्रतीतावविमृष्टविधेयांशता दुर्निवारैव / पौर्वापर्यकामचारस्य तु विशेषण-विशेष्यभाव एव विषयः। 5 यत्रै स्वसौन्दर्यादेव तयोरन्योन्याक्षेपः / न वृथात्वविशेषितम् इति / अयं भावः-अत्र वृथात्वोच्छूनत्वयोर्विशेषण-विशेष्यभावाभ्युपगमेऽपि वृथात्वरूपं विशेषणं प्राधान्यविवक्षया विधेयधुरामधिरोहदितरेणानूद्यमानकल्पतया न्यग्भावमिव भजता न वृत्तेविषयो भवितुमर्हति / अन्यथा तु तस्य न्यग्भूतत्वेन विधेयधुराऽधिरोहित्वं न स्यात् / . विवक्षितम् इति। योऽसौ इति पदद्वयं क्रमेणैवानुवाद्य-विधेययोः प्रत्यायनप्रयोजन- 10 त्वेन वक्तुमिष्टमित्यर्थः। तच्छब्दस्य इति-पूर्वस्मिन् वाक्यार्थे यत् प्रक्रान्तं वस्तु तद्विषयस्य, कुत्सितमकुत्सितं वा यत् कर्मादि तद्विषयस्य वाऽर्थसामर्थ्यादेवाक्षिप्यमाणस्येत्यर्थः / ' साधु चन्द्रमसि' इत्यत्र हि प्रक्रान्तवस्तुविषयता, 'आत्मा जानाति यत् पापम्' इत्यादौ तु कल्पिततत्कर्मादिविषयतेति / श्रितक्षमा इति / क्षमा क्षान्तिः, पृथिवी च। अनुरक्तप्रजाः, रुधिरस्थानानि च / शिवं 15 भद्रम् , शिवा च जम्बुकः, विग्रहः कलहो, देहश्च / असुखानि सुखाभावाः, प्राणेन्द्रियाणि च / जहति इति त्यजन्ति, विकिरन्ति पातालमध्यमपि प्रकाशयन्तीत्यर्थः। उचितार्थवृत्ती इति उचितार्थवर्तनरूपे इत्यर्थः / दुड्डी इति मदनमन्दिरे, चित्कु [1] इति च तदन्तर्वर्तिनि मणौ कश्मीरेषु स्मृतिमुत्पादयति। लण्डा इति दुश्चर्मणः स्मारकम् / यस्य इति द्वितीयस्य पदस्य / तद् इति द्वितीय पदम् / विसन्धि इति विगतसन्धि 20 विरुद्धसन्धि चेत्यर्थः / सति हि द्वितीयस्मिन् पदे विसन्धित्वं भवतीति द्वितीयं पदं विसन्धीत्युक्तम् / आदिपदं विना द्वितीयस्यापि विसन्धित्वंदुर्घटमिति आदिपदमप्यर्थाद् विसन्धीत्यत एवायं वाक्यदोषोऽत्र निर्णीतः / ___'स इत्थम्' इति * भरत आहूत' इति चासन्ध्युदाहरणम् / 'मन्थरया भरत' इति विरुद्धसन्धिनिदर्शनम् / संहितया हि पाठे सति पदभङ्गवशात् सविलासे मैथुने रत 25 इत्यश्लीलार्थप्रतीतेः। अयुक्तितः इति अयोगेन पूर्वोत्तरपदयोरमिश्रीभावेन हेतुनेत्यर्थः / यदि वा अयुक्तितश्च पदं दुष्टं भवेदिति चार्थोऽत्र व्याख्येयः, यथा गामश्वमित्यादिवाक्ये / 1. विध्यनुवादभावे // 2. विशेषणविशेष्यभावे // 3. स्वमाहात्म्यात् // 4 विशेषण. विशेष्ययोः // 5. सह // 6. समासस्य / / 7. चिंत्विवति ख. //