________________ कल्पलताविवेके रशना-घण्टा-भ्रमराद्यर्थम् / प्रायग्रहणं सदृशार्थवृत्तिकगि-शिञ्जि-गुञ्जीत्याद्यर्थम् / प्रभृतिग्रहणं वाश्यत्याद्यर्थम् / पुनरादिग्रहणं सिंह-मृगाद्यर्थम् / प्रायग्रहणमपिध्वनत्याद्यर्थम् / ____ एवंप्रायान् इति। ये शास्त्रे सामान्येन पठ्यन्तेऽथ च विशेष एव दृश्यन्ते तानित्यर्थः / तद्यथा-हेषतिरश्चेषु, भगतिः पुरुषेषु, कशतिः पीडितेषु, वातिर्वायौ, न त्वन्यत्र / नहि भवति 5 पुरुषो वातीति / एवमन्यदपि बोद्धव्यम् / बलबद् इति अत्यर्थं मुग्धिकासीत्यर्थः। अवधिः इति प्रवासमर्यादावच इति / “मामुद्दिश्य” इति लक्षणम् विरहानलकरालिताया मर्तुमनस उक्तिरियम् / विद्याम् इति। या या यक्षेश्वराणां वनिता भवद्वल्लभा सा सा एतीति सम्बन्धः / प्रवासयति इति / अत्र प्रवासयति-संस्थित-विनाशशब्दा निराच्छादयत्यावशस्तार्थान्तराः, पिशाचीशब्दस्तु अशस्तार्थोऽप्यशस्तान्तरत्वेन कथञ्चिदुदाहृत इति चिन्त्यम् / 10 मारीच इति कश्यपः। कृत्याः क्रियाः / पल्या अदितेः। सङ्क्रन्दनादीनाम इति ।आदिग्रहणात् धाता मित्रोऽर्यमा वरुणोंऽशुर्भगः पूषा विवस्वान् सविता त्वष्टा विष्णुश्चेति। अत्र कृत्याशब्दोऽशस्तार्थान्तर इति अशस्तार्थस्मारकत्वेन न व्याख्यातः कल्पलतायाम् / प्रत्याद्रयन्तः इति / अत्र रूढवण-क्लेद-पुरीषण्डशब्दानां घृणावत्स्मृतिहेतुत्वम् / ग्राम्यं घृणावद् इति / घृणावदादिकमेकैकमपि त्रिप्रकारं क्रमेणैव संवीत-गुप्त-लक्षितेषु न 15 दुष्यतीत्यर्थः / सुदुस्त्यजेति। अश्लिष्टैस्त्रिभिर्वाक्यखण्डलकैरश्लीलार्थान्तरे उदाहरणचतुष्टयम् / भद्रे मारी इति / अत्र मारी-कृत्यादीनां पदानां समस्तमङ्गलायतनस्य भगवतो विश्वेश्वरस्य सम्धन्धेनोक्तेः संवीतत्वाद् गुगत्वम् / वहति इति परिगयति सति / कोऽभिप्रेत इति / अत्र अभिप्रेत इत्यादीनामशस्तस्मृतिहेतूनामपि लोकेऽन्यत्र लक्षितत्वाद्गगत्वम् / विपूय इति / अत्र विपूय-पलाश-ब्रह्मवर्चस-पोगण्डशब्दानां घृणावदर्थस्मृतिहेतुत्वेऽप्यन्यत्र 20 लक्षितत्वाददुष्टत्वम् / एवमन्यद् इति। " किञ्चिदाश्रयसौन्दर्याद् " इति, “सन्निवेशविशेषात्तु" इति च इत्यादि भामहोक्तानुसारेणेत्यर्थः / निरूढाः इति भ्रष्टोपचारप्रतीतयः। लक्षणाः इति लक्षणाशब्दाः / अभिधानवद इति वृक्षादिनामशब्दवत् / तथाविधे इति। तादृशेऽपरस्मिन् गौर्वाहीको गङ्गायां घोष इत्यादौ परिदृष्टः सादृश्यनिबन्धन-सारोपगोगोपचारत्वसम्बन्धनिबन्धन-लक्षणात्मकशुद्ध 25 त्वादिलक्षणः स्वभावो यासां लिसवियदित्यादिकानां ता इत्यर्थः / दुरालोकम् इति / दुःसहविरहवह्निदन्दह्यमानमानसः कामपि सुखकलामिदानीमिह कथञ्चिदप्यनासादयन् तदर्थमेव किल नभःसरोऽनुसरामीति यावदुदङ्मुखमवलोकये तावत्तदसमदुःखनिमित्तं प्रत्युत भवतीत्यर्थः / भवतु तर्हि प्रतीची दिशमाश्रयामि / एषापि 1. पुनरथें // 2. शब्दशास्त्रऽभिधानशास्त्रे च /