SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् तया ह्यदः पुंसः पूर्वजनिवासवचनम् / संवीतम् इति बहुशः प्रयुक्तम् / सुभगा इति सुभगा भगिनी / उपस्थानम् इति व्रीडारूपासभ्यार्थान्तरासभ्यस्मृतिहेतुरूपमभिप्रेतम् / कुमारी इति अमङ्गलातकरूपासभ्यस्मृतिहेतुभूतम् / दोहदम् इति त्वजुगुप्सितरूपासभ्यस्मृतिहेतुस्वभावमश्लीलं लोकादृतत्वान्न दुष्टम्। कामार्ता इति काष्ठाप्राप्तमदनावस्थारूपेण मृत्युना प्रत्यासन्नमरणा विहितेत्यर्थः / तम् इति विवक्षितम् / अभिधानतया इति 5 वाचकत्वेन पर्यायत्वेनेत्यर्थः / यथा-विषधरारिनन्दनशब्दो मेघे। विषधरारयो मयूरास्तेषां नन्दनः / अभिधानग्रहणाद्विशेषणत्वे तु न कश्चिदोषः / साधारणमपरेषु इति। यत्पदं गुणक्रिये निमित्तमुद्दिश्यान्येष्वप्यर्थेषु साधारणं सदेकस्मिन् विशिष्टेऽर्थेऽभिधानतया न तु विशेषणत्वेन कृतं तत् संशयवत् / हिमहा इति / हिमहननक्रिययैतद् रखो वह्नौ च साधारणमभिधानतया चैकत्राप्यरूढमत एकत्र प्रयुज्यमानं संशयं कुरुते। कल्पितम् इति 10 स्वधियैवाभिधानतया प्रयुक्तम् / अश्व इति / वडवामुखानलेल्यस्य योगनिमित्तस्य संज्ञाशब्दस्य च पर्यायोऽयम् / अत्र च मध्यपदं वडवामुखो वडवावदन इत्यादेर्दर्शनात् पर्यायपरिवर्त्तनं क्षमते / न च योगरूढशब्दे पर्यायपरिवर्तनक्षमत्वमस्तीति गीर्वाणादिः पर्यायपरिकल्पने नोदाहार्यः / न खलु वाक्सायक इत्यादिर्देवादिवाचकः / यत्र इति वक्तरि वस्तुनि च / पदम् इति तत्र भवन्नित्यादि / 15 ___अधम इति / अधमा हीनजातयो दासचेटादयः / मध्यमाः प्रतीहारपुरोहितसार्थवाहादयः / उत्तमा मुनिनृपमन्त्रिप्रभृतयः / इदम् इति द्वितीयकारिकोक्तम् / वस्तुविषयम् इति / उत्तमो मुनिमन्त्रिप्रभृतिरपि तत्रभवदादिपूजापदानि वक्तुं योग्योऽपि राजानमेभिर्वक्तुं नार्हति / तथा स एवोत्तमो राजादिमुनि परमेश्वरादिभिरामन्त्रणपदैरिति वस्तुविषयमेतत् / राजा हि परमेश्वरादिभिर्मुनिश्च तत्रभवदादिभिः पदैराहूयते / वक्तविषयम् इति / गरीयसो 20 मुनिप्रभृतीस्तत्रभवदादिशब्दैवक्तुमुचितानप्यधमो नैतैर्वक्तुमर्हति / तथैतान् भट्टारकेत्यादिभिर्नृपादिरिति वक्तृविषयमेतत् / दिङ्मात्रं चेदम् , विस्तरतस्तु कल्पपल्लव एव प्रपञ्चिताद् दशरूपविधानादन्योन्याभाषणविधिं यथावदेवगम्य तदन्यथोपनिबन्धे दोषोऽयमुद्भावनीयः / क्लिन्न-गण्डेतिशब्दावार्दे कपोले च सभ्येऽर्थे प्रयुक्तौ पूतियुक्तं पिटकं चासभ्यमप्यर्थ मनसि कुरुतः / असभ्यद्वययोगाचात्र विशेषणविशेष्यभावे सति दुष्टतरार्थप्रतिपत्तिः / 25 अर्थविशेषवशाद्वा इति / अतिव्याप्तिपरिहारार्थमिदम् / सभ्येऽर्थे आर्द्रकपोलादौ प्रयुक्तमसभ्यार्थान्तरं सदपि तद् ग्राम्यं क्लिन्न-गण्डादिपदमनुचितत्वं मुञ्चतीत्यर्थः / सभ्येऽपि इति / अपिर्विस्मये संभावनायां वा / मञ्जीरादि-इति / आदिग्रहणं 1. -ति तु जु-ख // 2. यथा विद्यते यत्र तत्तथेति क्रियाविशेषणम् //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy