________________ कल्पलताविवेके रूढिच्युतम् इति / सामान्येनोक्ते योगरूढयोऽपि गृह्यन्ते / तेन तेष्वपि शब्देषु रूढिमनपेक्य योगमात्रोपादानात् तद्वति यत्रार्थे पदं वर्तते तत्तेनार्थेनान्यार्थम् / तत्रारूढत्वेनातदर्थत्वात् / यथा-जलध्यादौ जलधरादिपदम् / अत्र रूढिभागत्यागयोगभागपरिग्रहोपैनमितयाऽभिधैर्यवार्थस्य सम्प्रत्ययान्न नेयार्थता। तत्र सर्वं सर्वेणाभिधाया अभावात् / 5 नापि गूढार्थता / तत्र तत्तदंशविषयत्यागोपादानरूपव्याख्यासमायोजनाव्यतिरेकेणैवाप्रसिद्धार्थविषयाया अभिधायाः प्रवृत्तेः / अश्लीलता पुनरनाशक्यैव / क्लिष्टत्वमपि न संश्लिष्टम् / तस्य भागविषयत्यागोपादानमन्तरेण व्यवधानोपघटिताभिधास्वभावत्वात् / तत्र प्रथमस्तावदोषोऽभिहितरूपभागविषयत्यागोपादानसंस्कारसंस्कृताभिधानिबन्धनः / द्वितीयः सर्व सर्वेणाभिधादरिद्रशब्दविषयीकृताभिधेयविषयोपलक्षितलक्षणादिकविकल्पनामात्र10 सारः / तृतीयः पुनरप्रसिद्धार्थविषयाभिधाव्यापारशरीरः / चतुर्थस्य रूपं स्पष्टमेव / पञ्चमोऽपि व्यवधोपाध्यभिधास्वभाव इति सम्भाव्यमानपरस्परान्तर्भावानाममीषामन्यनेयगूढार्थाश्लीलक्लिष्टदोषाणामेष भेदोऽवसेय इत्यस्याभिप्रायः / . अन्ये तु जलधरादिशब्दे जलध्यादौ प्रयुज्यमानेऽशोऽपि शब्दलक्षणापूर्वकमेवार्थप्रतिपत्तिहेतुर्भवतीति नेयार्थ इति प्रतिपद्यन्ते / गण्डं साधु इति / अनुप्रासपरिपोषणा व्यङ्गयो रसादिश्च / अनया इति / यथा सन्निवेशविशेषाश्रयौ चारुत्वाय तथा प्रकरणविशेषादिरपीत्यर्थः / तेन समदकरिवर्णनावसरात् किन्नगण्डशब्दौ द्वावप्यसभ्यार्थस्मृतिहेतू न विरसतामावहतः / एवं शिवपूजावर्णनावसरे लिङ्गशब्दः / राजवंशवर्णनसमये भगीरथ शब्दः / ब्राह्मणगुणगणनप्रस्तावे ब्रह्मवर्चसशब्द इत्यादिः / 20 यथा-तद्वद् इति / यथा-तद्वच्छब्दो क्रमेणैव असाधीयःसाधीयःपदाभ्यां योजनीयौ / तेनायमर्थः / यथा असाधीयः साधीयत्वासाधीयस्त्वोभयरूपतया प्रयोजितं तथा साधीयोऽपि द्वैरूप्येण प्रयोजयेत् / तत्रासाधीयसो नैसर्गिकमसाधीयस्त्वमिति साधीयस्ता पूर्व ज्ञापिता / साधीयसस्तु स्वभावेन साधीयस्त्वस्य सम्भवादुभयरूपताभि धानस्यासाधीयस्तापरत्वं द्रष्टव्यम् / 25 असभ्य इति / यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात्तदसभ्यार्थान्तरम् / यत्तु पदमेकदेशद्वारेणासभ्यमर्थ स्मारयति तदसभ्यस्मृतिहेतुः / केवलासभ्यार्थे च विष्ठादिपदं दुष्टतया शक्यसम्प्रत्ययमिति न प्रदर्शितम् / स्वशक्त्या इति अभिधया। 1 उपढौकितया // 2 शब्दशक्त्यैव // 3 युक्तम् // 4 व्यवधा उपाधिर्विशेषणमस्याः / 5 वामनस्य / 6 रूपकविशेषो भाणः प्रहसनं च /