________________ दोषदर्शनम् सामान्यादभिधीयते / तथा अविद्यमानं स्वमस्येति अस्वोऽयमश्व इति / तस्माच्छब्दरूपमपरिगृहीतकारणं न किञ्चिन्नियतमस्ति यत्र साधुत्वमसाधुत्वं वा व्यवतिष्ठते / ___ असाधुत्वस्यापि इति / पददोषाणामपि येषां कथञ्चित् सम्भाव्यमर्थदोषत्वं तान्या सतां ग्राम्यत्वाप्रतीतत्वानर्थकत्वानि / ययोत्वसाधुत्वकष्टत्वयोस्तदसम्भाव्यमेव तन्मध्यायदसाधुत्वं तस्यापीत्यर्थः / अत एव इति / यतः पददोषत्वम् / तद्व्याख्यान-इति / 5 तस्यैव गूढार्थपदप्रयोक्तुरेव व्याख्यानम् / कभिप्राय-इति / दृशोरथुपयोनिषेककरणक्रियायाः प्रधानं यत्फलं प्रियसम्प्रयोगस्तन्न कुरङ्गेक्षगामभिसम्बध्नाति। चादिपदापयोगेऽपि इति / अयमर्थः / यत्र नाम द्योतकमात्रतया सदा प्रोषितार्थप्रायमव्ययं द्योत्यार्थमात्रविरहेणानर्थक्यदोषमश्नुते तत्र कथमन्यद्वाचकमेव स्वैकैशरणवाच्यार्थविरहेण नैरर्थक्यं नाश्नुवीतेति / आनर्थक्याच्च इति / ननु निरर्थक निष्प्रयोजनं पुनर्वचनमपि तथैवेति 10 नानयोविंशेष इत्याशङ्कायामिदमुक्तम् / प्रयोजने सति ह्युक्तस्यार्थस्य पुनरुक्तिः / निरर्थके त्वर्थप्रतिपत्तिलक्षणस्य प्रयोजनस्य सर्वथा विरह एवेत्याशयः / अत एव इति / यतोऽर्थाभावान्नायं तदाश्रयो दोषो भवितुमर्हति / साक्षाद इति / अव्यवधानेन वाच्यमर्थमभिधातुमप्रतीतः शब्दोऽर्थप्रतिपत्तये न भवतीत्यर्थः / अन्य इति / तेनावाचकमिति पर्युदासोऽयम् / ततश्च वाचकसदृशमवाचकम् / अपार्थं त्वपगतार्थ प्रसज्यप्रतिषेधवृत्त्या निरर्थकमुच्यते / 15 अन्यार्थम् इति / अन्योऽर्थो वृद्धव्यवहारप्रसिद्धादर्थाद्यस्य पदस्य तदन्यार्थम् / विगमे इति / रूट्यपगमे अथवा विगमे यथेति सम्बन्धः, यथा विशब्दसान्निध्ये इत्यर्थः / ननु चैवं शब्दहीनेऽस्यान्तर्भावः / विषयान्तरप्रयोगेऽप्यपशब्दो भवति, न केवलं लोपागमवर्णविकारादीनामयथाकरणे / तथा च“अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे” इति / 20 तेन विपूर्वो हरतिः पादविक्षेपे प्रसिद्धसम्बन्धः, अस्य च परिमोषप्रयुक्तावपशब्दतैव। अपशब्दस्य च स्वप्नेऽप्यप्रयोगादनित्यदोषमध्येऽस्य पाठो न सम्बद्ध इत्याह-यत्र झटितीति / कश्चिद इति अपहरणलक्षणादिः / न चासौ इति अपि तु पादविक्षेपलक्षणादिः / अदर्शनाद् इति उपसर्गवशेनेत्यर्थः / तथाभूत इति अपहरणलक्षणादेः / पादपूरणार्थम् इति / धात्वर्थानुहारित्वान्निरर्थकत्वेऽपि न कश्चिदोष इत्यत्र तात्पर्यम् / वीत्त-इति / “अच 25 उपसर्गात्तः” इति तत्वम् / विदत्तशब्दे तु न दृश्यते तत्वमिति विशब्दस्यात्र निपातत्वमिति सिद्धम् / विहृतं च इति विजहरिति / विहरणं च तत् पादविक्षेपलक्षणायां क्रीडायां प्रसिद्धम् , न त्वपहरण इत्यर्थः / प्रसिद्धार्था इति प्रसिद्धोऽर्थः पादविक्षेपलक्षणादिः। 1 गत- // 2 आत्मीयवाचक-॥ 3 अन्यार्थस्य //