________________ कल्पलताविवेके भिनत्ति इति / तिमिरविनाशः कुमुदविकाशनं च कार्य चन्द्रलक्षगमेवार्थ स्मारयति / मत्त इति / कोकिलानां मदाबाने वसन्तस्यैव सामर्थ्यमिति / ईक्षणम् इति / चक्षुःशब्दोपादानेनैव नयनार्थस्य प्रतिपादितत्वादीक्षगशब्दप्रयोगोऽन्यथा नोपपद्यत इति सामर्थ्यमीक्षणलक्षगं व्यापारमत्र स्मारयति / प्रश्ने इति / किंविषयोऽयं प्रश्न इति शब्दार्थस्यानवच्छेदे 5 पूर्वपूर्वप्रकारवैचित्र्योपैदर्शनविशिष्टतया क्रमोपैगमसामर्थ्य पुंव्यञ्जनलक्षण विषय स्मारयति / अस्य इति / विशिष्टे देशे वर्तमानः पुमानिदमा प्रत्यक्षेण निर्दिश्यते / उदा-इति / “यत्पदमभिनयसहितम्" इति लक्षितस्य लक्षणस्य लक्ष्यप्रदर्शनार्थमिदम् / माषमिति मासमिति च सषयोवक्तव्ययोः पसावतादृशावुक्तौ / शकासमित्यत्र च य आदावुच्चारणीयः सोऽन्ते निर्दिष्टो, यश्चान्ते निर्देष्टव्यः स आदाविति विपरीतता अस्वगोण्यादिशब्दानाम् इति / 10 तथा च भर्तृहरिः "शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्षिते / तमर्पभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम्" / शब्दप्रकृतिरपभ्रंशो नाप्रकृतिः स्वतन्त्रः कश्चिद्विद्यते / सर्वस्य हि साधुरेवापभ्रंशस्य प्रकृतिः / प्रसिद्धेस्तु रूढिमापयमानाः स्वातन्त्र्यमिव केचिदपभ्रंशा लभन्ते / तत्र 15 च गौरिति प्रयोक्तव्येऽशक्त्या प्रौदादभिन्नों गोण्यादयस्तत्प्रकृतयोऽप्रभ्रंशाः प्रयुज्यन्ते / ते च सास्नादिमत्येव लब्धस्वरूपाः साधुत्वं विजहति / अर्थान्तरे तु प्रयुज्यमानाः साधव एव विज्ञायन्ते / न ह्येषां रूपमात्रप्रतिबद्धमसाधुत्वम् / तथा हि "अस्वगोण्यादयः शब्दाः साधवो विषयोन्तरे / निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम्" / / 20 आवपने गोणी इति स्ववियोगाभिधाने च 'अस्व' इत्येतयोरवस्थितं साधुत्वम् / तथा सास्नादिमति हेषितादिलिङ्गे च निमितान्तरात् प्रवृत्तावेतयोरन्यत्र विषये लब्धसंस्कारयोः साधुत्वमेव विज्ञायते। “गोणी इवेयं गौर्गोगी" इति क्षीरधारणविषयोद् आवपनत्व 1 थम्प्रत्ययार्थः // 2 इदम्प्रकृत्यर्थः // 3 तृतीयार्थः // 4 क्रमोपगमस्य // 5 अयमेव[?] सामर्थ्यम् // 6 प्रत्यक्षेण निर्दिश्यते इदमा करणेन // 7 अपशब्दम् // 8 गोरूपविशिष्टार्थे निविशते तच्छीलः // 9 स्वतन्त्र इति नाप्रकृतिरित्यस्य पर्यायः // 10 क्वचिद्देशे // 11 गोवाचकगोणी-गावी-गोपुत्तलिकादयः शब्दाः // 12 लक्षणविषये निरवधानता // 13 अभिनार्थ इत्यर्थः // 14 गवादिः पराभृश्यते // 15 निधने सणसूत्रपटयां च // 16 द्रव्य- // 17 इत्यस्मिश्चार्थे // 18 अस्वगोणीशब्दयोः // 19 हेषितादि लिङ्गं यस्य तुरगस्य // 20 गोणशब्दादावपने ईर्भवति, अन्यत्र गोणा इति संस्कारः॥ 21 क्षीरधारणं विषयो यस्यावपनत्वस्य // 22 धारण- //