________________ दोषदर्शनम् शास्त्रेऽपि "अणुदित्सवर्णस्य चाप्रत्ययः” इत्यत्राणप्रत्याहारः किं पूर्वेणं णकारेण उत परण इति सन्देहे "उत्” इति वाक्यान्तरे तपरकरणं लिङ्गं परेणैव णकारेणेति नियमयति / तद्धि ऋकारेण सवर्णानां ग्रहणे सति अचीकृतदित्यत्र दीर्घस्य स्थानिन आन्तरतम्यादी? मा भूदित्येवमर्थं क्रियते / यदि च "अणुदित्” इत्यादिसूत्रे पूर्वेण णकारेण अण्ग्रहणं स्यात् ऋकारोऽनण्त्वात् सवर्णानां ग्राहको न स्यात् ततश्च दीर्घस्यापि स्थानिनो यथाश्रुतेन 5 हस्वेनैव भवितव्यमिति तपरकरणं न कुर्यात् , व्यावाभावात् , कृतं च, ततोऽवगम्यते परेण णकारेण ग्रहणमिति / शब्दान्तरसन्निधानाद्यथा-अर्जुनः कार्तवीर्यः, रामो जामदग्न्यः / शास्त्रेऽपि अक्षस्य देवनस्य / अर्द्धस्य समयोतनस्य / सामर्थ्याद् यथा-अनुदैरा कन्या / तथा अभिरूपाय कन्या दीयताम् , न चानभि- 10 रूपे प्रवृत्तिरस्ति, तत्रे अभिरूपतमायेति विज्ञायते / शास्त्रेऽपि "प्रथमानिर्दिष्टं समास उपसर्जनम्" इति समासार्थे शास्त्रे समासशब्दस्य वृत्तिः कष्टश्रितादिषु समासेषु प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् / औचित्याद् यथा-'राक्षसो दस्युर्भद्रमुख इति विपर्ययेण निन्दा प्रशंसा वा गम्यते / तथा रामसदृशः अर्जुनसदृशः इति रामार्जुनविशेषः प्रयोजनौचित्योत् प्रतीयते। 15 देशाद् यथा-नगरादागतोऽस्मीति प्रत्यासन्नदेशविशेषसम्बन्धीत् पाटलिपुत्रे सम्प्रत्ययः / तथा क्वचिदेशे ये प्रशंसावचनास्तेऽन्यत्र आक्रोशविषयाः / यथा प्रौढाव्यः / कालाद् यथा-दक्षिणापथैकदेशे पच्यतामिति पूर्वाह्ने यवागूसाधनो विक्लेदः प्रतीयते, सायाहे त्वोदनसाधनः / तथा जागृहि जागृहीत्यहनि, रात्रौ च जागर्तेरों भिद्यते / व्यक्तेर्यथा-ग्रामाई ग्रामार्द्ध इति, पद्म पद्म इति च / / 20 स्वरात्वर्थविशेषप्रतीतिः काव्यमार्गेऽनुपयोगिनीति नोदाहियते / उपलभ्यन्त इति / संसर्ग इत्यायेकवाक्यपठितःवसाहचर्याल्लक्ष्यन्त इत्यर्थः / 1 अइउण् इत्यन्तवर्तिना // 2 हयत्रर[]. लण इत्येतत्सूत्रान्तवर्तिना // 3 ऋवर्णस्य(र्णः ?] अण् उदिच्चाप्रत्ययः सवर्णस्य ग्राहको भवति // 4 स [1] // 5 कृतवीर्यस्यापत्यं कृतवीरस्यापत्यमिति च यथाक्रमणि ण्ये च कार्तवीर्य इति // 6 क्रीडनकस्य प्रासकस्येत्यर्थः // 7 समं द्योतयति // 8 सर्वथाऽभावे न नत्र किन्त्वीषदर्थे सामर्थ्यात् // 9 तंतोऽभिरूपग्रहणं निरर्थकं सद् यत्कृतं तस्सामर्थ्यादभिरूपतमायेति लभ्यते // 10 “विशेषगं विशेष्येण बहुलम्" इत्यादिके // 11 औचित्यं शास्त्रे न घरते इति शास्त्रे न दर्शितम् / असम्भवाच्छास्त्रेऽपीति नोक्कमेवमन्यत्रापि // 12 पाटलिपुत्रस्य / 13 आक्रोश-॥१४ विवेको जागरणं चेति यथाक्रमम् // 15 निधिविशेषः॥