SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 10 कल्पलताविवेक तदेतदुक्तं भवति / प्रत्यासत्तेर्वि-पराशब्दावुपसर्गौ गृह्यते इति / प्रत्यासत्तिश्च वि-पराभ्यामुपसर्गाभ्यामेव जयते नुपसर्गाभ्याम् / तथाहि-ताभ्यामेव तदर्थो विशेष्यते नेतराभ्यामिति / तथा "अन्तरान्तरेण युक्ते" इति / अत्रान्तराशब्दो यद्यपि स्त्रीप्रेत्ययान्तोऽप्यस्त्यस्त्रीप्रत्ययान्तोऽपि / अन्तरेणशब्दस्त्वस्त्रीप्रत्ययान्त एव / तस्मादन्तरेणशब्देनास्त्रीप्रत्ययान्तेन 5 साहचर्यादन्तराशब्दोऽप्यस्त्रीप्रत्ययान्त एव गृह्यते। यश्चास्त्रीप्रत्ययान्तोऽन्तराशब्दः स निपात एवेत्यन्तराशब्दस्य तावन्निपातस्य ग्रहणम् , अतस्तेन निपातेन साहचर्यादन्तरेणशब्दस्यापि निपातस्यैव ग्रहणम् / यद्यप्येको दृष्टव्यभिचारः तथाप्यदृष्टव्यभिचारो दृष्टव्यभिचारस्य साहचर्यात्तुल्यधर्मतां प्रसिद्धां प्रतिपादयति / भाष्येऽपि “अस्य गोदितीयेनार्थः” इति गौरेवानीयते नाश्वो न गर्दभ इति / विरोधाद् यथा-अभिमन्यु-लक्ष्मणौ / ___ अर्थाद् यथा-गोपालकमानय, माणवकमध्यापयिष्यतीति / सैन्धवमानय, मृगयां चरिष्यामीति / अञ्जलिना जुहोति / अञ्जलिनोदकं पिबति / अञ्जलिनी सूर्यमुपतिष्ठते इति / शास्त्रेऽपि “गुणेन षष्ठी न समस्यते” इति अदेङां न सम्प्रत्ययः, किन्तु शुक्लादेरेव सम्प्रत्ययः इति / तथा "न शसददवादिगुणानौम्" इति परतन्त्रस्याश्रयिणः शुक्लादेहणं 15 न भवति, अपि तु “अदेङ् गुणः” इत्येवमभिनिवृत्तस्य गुणस्य / प्रकरणाद् यथा-अन्तरेणशब्दं भुज्यङ्गेषु उपसंहियमाणेषु सैन्धवमानयेति नाश्वे सम्प्रत्ययो भवति / तथा व्यायाम प्रवृत्ते शिलामानय धेनुमाँनय / गृहकर्मणि रथसंस्कारे वा प्रक्रान्ते शिलामानय चक्रमानयेति नाविशिष्टः सम्प्रत्ययो भवति / छायोपगमने धर्माधुपयोगे वा वटवृक्षं पश्येति / शास्त्रेऽपि उभयेंगतौ" सत्यां “कर्तृकरणयोस्तृतीया" 20 इति शक्तीनां प्रक्रान्तत्वात् क्रियाग्रहणं न विज्ञायते / “शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे" इति धात्वधिकारात् क्रिया प्रतीयते। प्रकरणमशब्दम् , अर्थस्तु शब्दवानित्यनयोर्विशेषः / लिङ्गाद्यथा-अक्ताः शर्करा उपर्दैधतीति / अनेकस्याञ्जनद्रव्यस्य सम्भवे "तेजो वै घृतम्" इतिवाक्यान्तरे दृष्टाल्लिङ्गाद्विशिष्टसाधनत्वमञ्जनक्रियायाः शर्कराकर्मिकाया निर्यते। 1 यथाऽन्तरस्यै शाटिकायै // 2 नन्वन्तराशब्दोऽस्त्रीप्रत्ययान्त एव गृह्यते / कथम् ? यावता दृष्टव्यभिचारोऽसौ वर्तते इत्याह // 3 तुल्यो धर्मोऽस्त्रीप्रत्ययान्तत्वलक्षणो यस्य दृष्टव्यभिचारस्य // 4 प्रयोजनम् // 5 अर्जुनपुत्रः // 6 दुर्योधनपुत्रः // 7 वागीशं विद्वांसमिति यावत् // 8 हवनाञ्जलि-॥ 9 पानाञ्जलि-॥ 10 उपस्थानाञ्जलि - // 11 आराधयति // 12 गुणयोगाद् धातवोऽपि गुणाः // 13 भुजिक्रियाधात्वर्थे विधानादिकः, “इश्तिपौ धातुनिर्देशे] स्वरूपेऽर्थे च" इति // 14 शस्त्रिका // 15 क्रिया कारकं चेति द्वयम् // 16 परिच्छित्तौ // 17 षि[] // 18 उपदध्युरित्यर्थः // 19 घृतलक्षणात् //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy