________________ दोषदर्शनम् शब्दान्तरयोरेतदुपात्तैः प्रकरणादिभिर्लक्षितानां संसर्गादीनां चोपलक्षणपरं व्याख्येयम् / __'संसों विप्रयोगश्च' इति / अर्थभेदाच्छब्दभेद इति नानात्वपक्षे, स्वभावभिन्नानां तुल्यश्रुतीनां शब्दानां रूपाभेदादेक एव शब्दोऽर्थद्वयवृत्तिरित्येकत्वपक्षे वा भिन्नानां शक्तीनां शब्दश्रुतिमात्रादलब्धविभागत्वेनार्थस्यानवच्छेदे संसादि निमित्तान्तरं विशेषस्मृतिहेतुर्भवतीत्यर्थः / तत्र संसर्गाद्यथा-धेनुरानीयताम् , दोग्ध्री' दीयताम् इति विवक्षितस्य विशेषस्यासंप्रत्यये सकिशोरा सवर्करा सकरभा सवत्सेति नियतेन संसर्गिणा भेदाधिगमनिमित्तेन वडवादिषु दोग्ध्रीविशेषेषु सम्प्रत्ययो भवति / येषां तु धेनुरित्येष गवि रूढ इत्यागमस्तेषां सवत्सत्वलक्षणस्य धर्ममात्रस्य विवक्षा विज्ञायते / येषां च गाजालक्षणार्थद्वये धेनुशब्दस्य प्रसिद्भिस्तेषां सवत्सेति सवर्करेति वा विशेषस्मारकः संसर्गी नियतोऽव- 10 गन्तव्यः / शास्त्रेऽपि “अवाद् ग्रः" इति यस्यावेनोपसर्गेण सम्बन्धः सम्भवति स गृह्यते गिरतिः / गृगातेस्तु स्वभावादवेनोपसर्गेण सम्बन्धो न विद्यते / यथा ऊर्यादयः प्रादुःशब्दश्च कृभ्वस्तिविषय एव तथा अवशब्दोऽपि गिरतिविषय एव न गृणातिविषयः / यदुंक्तम्"न चावपूर्वस्य गृगातेः प्रयोगोऽस्ति" इति / वियोगाद्यथा-अकिशोरा अवत्सा अकरमा अवर्करा धेनुरिति निर्मातसम्बन्धस्य 15 वियोगेन व्यपदेशात् / शास्त्रेऽपि “भुजोऽनवने” इति यस्य भुजेरवनं चानवनं चार्थस्तस्य ग्रहणं विज्ञाप्यते न कौटिल्यार्थस्य / निभुजति वाससी। निभुजत्योष्ठौ / निभुजति जानुशिरसी इति / . साहचर्याद्यथा-शिला आनीयतां गन्धद्रव्याणि च / शिला आनीयन्तां स्तम्भाश्च / शिला आनीयतां गदाधनुषी चेति / शास्त्रेऽपि “विपराभ्यां जेः" / अत्र साहचर्याद वि- 20 पराशब्दावुपसर्गावेव गृह्यते। तथाहि "नेर्विशः' इत्यत्र नेरुपसर्गस्य ग्रहणम् / अनन्तरसूत्रे च पर्यादीनामुपसर्गाणामेव / तत्प्रकरणसाहचर्याद् वि-पराशब्दावुपसर्गावेव गृह्येते इत्येके। अपरे तु वर्णयन्ति-साहचर्य प्रत्यासत्त्युपलक्षणम् / येषां हि साहचर्य तेषां नियोगतः प्रत्यासत्त्या भाव्यम् / अतः साहचर्यस्य प्रत्यासत्यविनाभावित्वात्तेने प्रत्यासत्तिर्लक्ष्यते / 1 निसर्ग- // 2 तुल्यश्रुतित्वात् स्वभावभिन्नानामपि शब्दानां रूपाभेदादित्यर्थः, यस्मात्तुल्यश्रुतीनामिति विशेषणद्वारेण रूपाभेदादित्यस्य हेतुः // 3 हेतौ तृतीया // 4 अनिश्चये // 5 रूढिनिमित्तम् / प्रथमतो यस्माद्धेनुशब्देन धेनुलक्षणोऽर्थः प्रोच्यते, रूढेः सकाशात् / ततः सैवार्थे धेनुलक्षणे निमित्तं प्राक, तदनु संसर्गादि निमित्तान्तरम् // 6 दोग्धुमरे / अर्हतौ तृच् // 7 “अवङ् स्फोटायनस्य" इत्यव[ङ] देशः // 8 भाष्यकृता // 9 पुरुषस्य // 10 विशेषे सम्प्रत्ययो भवति // 11 अव्यभिचारिणा व्यभिचारी यत्र नियम्यते तत्साहचर्यम् // 12 साहचर्येण //