________________ कल्पलताविवेके अनुकरणे तु इति / “ख्यातेऽर्थे निर्हेतोरदुष्टता” इति कारिकाखण्डान्निर्हेतावर्थदोषे व्याख्यास्यमानाददुष्टतेति सम्बन्धनीयम् / वक्त्रा इति / वक्ता वैयाकरणादिरधमप्रकृत्यादिर्लजा-हर्ष-भयादिवशसमुद्भूतसंभ्रमो विदग्धोऽपि मुग्ध इव च प्रतिपाद्यो बोद्धव्यः / व्यङ्ग्यो' रौद्रादी रसः / वाच्यः 5 सिंह-नृपतिसदनादिः / श्लेषादय इति / आदिग्रहणात् सुरतारम्भगोष्ठी-शमकथा-भाव्यमङ्गलसूचनम् , प्रतिपाद्यप्रतिपादकयो त्वम् , स्वयं परामर्शः, निराकाङ्क्षता, अन्ययोगव्यवच्छेदपरत्वम् , लाटानुप्रासोऽर्थान्तरसंक्रमितवाच्यता, विहितस्यानूद्यत्वम् , क्रोधाभावः, वाक्यार्थान्तरता, प्रत्यायनं चेत्यादि / क्वचित् किश्चिद् इति / वैयाकरणे वक्तरि प्रतिपाद्ये च रौद्रे रसे व्यङ्ग्ये, सिंहे वाच्ये 10 क्रोधस्य प्रकरणे श्रुतिकटुत्वम् , सुरतारम्भगोष्ठी-शमकथा-भाव्यमङ्गलसूचनेष्वश्लीलत्वम् , नृपतिसदने वाच्ये सन्दिग्धत्वम् , प्रतिपाद्यप्रतिपादकोभयज्ञत्वस्वपरामर्शयोरप्रतीतत्वम् , अधमप्रकृतौ वक्तरि ग्राम्यत्वम् , लज्जावशसमुद्भूतसम्भ्रमे वक्तरि न्यूनपदत्वम् , अन्ययोगव्यवच्छेदपरत्वेऽधिकपदत्वम् , लाटानुप्रासार्थान्तरसंक्रमितवाच्यता-विहितानूयेषु कथित पदत्वम् , क्रोधाभावे पतत्प्रकर्षत्वम् , क्रोधस्य प्रकरणेऽपदस्थसमासत्वम् , प्रत्यायने गर्भितत्वं 15 चेति वाक्यस्य; विदग्धेऽपि मुग्ध इव वक्तरि ग्राम्यत्वमिति पदस्य च दोषा अपि गुणाः / लेषेऽप्रयुक्तत्वं निहतार्थत्वं चेति पदस्य, नीरसत्व-निराकाङ्क्षता-वाक्यार्थान्तरतासु श्रुतिकटुत्व-न्यूनपदत्व-समाप्तपुनरात्तत्वानि वाक्यस्य च न गुणा न दोषा इत्यप्रयुक्तत्वादिषु पदवाक्यदोषेषु केषुचिदुदाहरिष्यन्त एत इत्यर्थः / म्लिष्टमविस्पष्टं लुप्तवर्णमित्यर्थः / म्लेच्छितमपभाषितम् / "म्लेच्छो है वा एष यदप20 शब्दैः” इति श्रुतेः / एकत्र शक्तिवैकल्यमितरत्र लक्षणज्ञातृत्वाभावो निमित्तं वक्तुरिति / अप्रयुक्तादय इति / अप्रयुक्त-निहतार्थावाचक-सन्दिग्धाप्रतीत-नेयार्थलक्षणाः / विभागेन इति पृथक्त्वेन / भेद-इति / असमर्थस्यायमयं प्रकार इति / यौगिकम् इति शब्दार्थसम्बन्धव्युत्पत्तिमत् / तत्र इति विवक्षिते श्यामत्वादौ / अन्यत्र इति अविवक्षिते शुभ्रत्वादौ / हि इति / यस्मात् प्रकरणादिभिर्विवक्षितोऽर्थो निश्चीयते तस्मादभिनयसहितस्य पदस्या25 नेकार्थस्याप्यर्थविशेषनिर्णये नासामर्थ्य दुष्येत् / अत्र च प्रकरणशब्दान्तरे प्रसिद्धत्वादुपमाने बोद्धव्ये, अभिनयस्तूपमेय इति / अथवा पूर्वकारिकायामभिनयग्रहणमेतदुपात्तयोः प्रकरण 1 श्रुतिकट्वपेक्षया रौद्रवीरबीभत्साः / अन्यापेक्षयाऽन्येऽपि // 2 निमित्तसप्तमीयम् [?] / तत एतद्वशादित्यर्थः / एवं पूर्वत्रापि // 3 ह वेति वाक्यालङ्कारे // 4 यद् यस्मादयम् अपशन्दः कृतस्तस्मान्म्लेच्छ इति भावः // 5 वेदात् // 6 सति //