________________ दोषदर्शनम् सूक्ष्मजलोद्गारिणा समीरणेन इत एवाभिसरता व्याप्तेति किं करोमि / इमां तु प्राचीमाविशामि। इयमपि तथैवेत्येवं दिक्षु विदिक्षु च चक्षुर्यावन्निक्षिपामि तावत्ताः सर्वा अपि सोढुमशक्यास्तदाह-दिशोऽपि दुःसहा इति / मन्द-इति सूक्ष्मजलोद्गारित्वात् मन्दमन्दत्वमित्यर्थः / .. तेषु च इति व्याख्यानान्तरमिदम् / ताश्च इति / वैदेहीविरहवह्निदाहदुःखमात्मनैव तावदुःसहमन्यत् केकाश्रवणात् स्मर्यमाणेन मेघदर्शनेन द्विगुणतामनिलस्पर्शेन च 5 त्रिगुणतां केकाश्रवणेनैव च चतुर्गुणतामापद्यमानमतिदुःसहतमं गुहासु संपद्यत इति भावः / साधारण्यम् इति / यथेमे मम पयोदादयो दुःखौघदायितया जीवितव्यव्ययहेतवः शङ्क्यन्ते तथा वैदेह्या अपीति समानत्वम् / इतः इति / अस्मात् विभावसाधारणत्वाभिमननकालात् / हृदये इति / मनसि दुर्ललिते भय उपस्थितेऽनुकम्प्यो डिम्भादिर्बाहुभ्यामुरसि विन्यस्य पित्रादिना हि रक्ष्यत इति तदर्थमुरसि तां निधायेति ध्वनिरपि / 10 अथ च इति पक्षान्तरसूचनार्थम् / भवनम् इति जीवनमित्यर्थः / स्मरण-इति / सजलजलधरादीनामुद्दीपनविभावानां साधारणत्वावधारणादिना स्मरणम् वैदेही इति शब्दः / कथं भविष्यति इति विकल्पपरम्परा / युक्तम् इति यतः क्षत्रिया त्वमिति / अर्थः इति वियल्लक्षणः / लक्ष्यते इति / लक्ष्यमागस्वार्थगतेषत्तिरोधीयमानत्वादिधर्मसदृशवियद्गतेषत्तिरोधीयमानत्वादिधर्मलक्षणाद्वारेणेत्यर्थः / मैत्री इति पयोदैः सहेत्यर्थः। 15 -धर्मा इति एतद्धर्मभाजनभूतो विशिष्टो राम इत्यर्थः / विशिष्ट इति दृढमित्यादिपदसन्निधानमेव / सामग्री लक्षिता इति। सामान्यविशेषात्मकसम्बन्धनिबन्धनया लक्षणात्मिकया शुद्धया लक्षणयेत्यर्थः / तस्मिन् इति यो वृद्धव्यवहारे निरूढः / तज्जातीयेषु इति / ये वृद्धव्यवहारे कुन्ताः प्रविशन्तीत्यादयो लक्षणाविषयत्वेन प्रयुज्यन्ते तत्प्रकारेष्वित्यर्थः / न चासौ इति / शूद्रे राजशब्दवत् तज्जातीयोऽसौ भविष्यतीति चेदित्याह-नापि च 20 इति / तज्जातीया हि लिप्तादयः शब्दाः सातिशयत्वेन प्रतीतिव्यवधायिशब्दलक्षणापुरःसरतया विनापि वियदादिलक्षणमर्थ लक्षयन्तः परिदृष्टाः / तथाविधार्थ-इति तथाविधो लक्ष्यमाणशब्दद्वारकोऽर्थः / तज्जातीये इति तुरङ्गकान्ताननहव्यवाहसदृशे। निर्जितत्वं लक्ष्यते इति / ततः साम्य॑माधिक्यं चेति नेयार्थता / तनामनि इति 'शिशुपरिप' इत्येवंरूपे। उत्तरपदमेव इति। पूर्वपदं तु पर्यायेण 25 परिवर्तनं क्षमत इत्यर्थः / किन्तु पयस्-तोय-वारिप्रभृतिना रूढेनैव, न तु वह्निशत्रु-हिमा 1. रक्षार्थम् // 2. भाषायाम् // 3. तज्जातीये.. सदृशे- अयं पाठः ख. पुस्तकस्य, क. पुस्तके तु निराकृतः // 4. मतविशेषेण //