________________ लोककौशल्यपरिच्छेदः। [47 शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा / ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः // 8 // अष्टौ विवाहाः—अलंकृत्य कन्याप्रदानं ब्राह्मो विवाहः 1, विभवविनियोगेन कन्याप्रदानं प्राजापत्यः 2, गोदानमिथुनदानपूर्व आर्षः 3, यज्ञार्थं ऋत्विजः कन्याप्रदानमेव दक्षिणा स दैवतः 4, मातृपितृबन्धूनामप्राामण्यात् परस्परानुरागेण मिथो- 5 योजनायां स गान्धर्वः 5, पगबन्धेन कन्यादानमासुरः 6, प्रसह्य कन्याग्रहणाद् राक्षसः 7, सुप्तप्रमत्तकन्याग्रहणात् पैशाचः 8 इत्यादि / नव निधयो, गुप्तयो ब्रह्मचर्यस्य, तत्त्वादीनि-जीवाजीवादीनि, अवेयकविमानानि, जैने विष्णवः प्रतिविष्णवो बलदेवाश्च / नव शयनगुणाः--अनग्नशायी, प्रसारितगात्रः, श्वेतवसनाच्छादनः, अशब्दविशायी, असम्बन्धविशायी, असम्बाधविशायी, संमुखशायी, 10 अहमितशायी, स्मृतदेवगुरुशायी, / नव रसाः शृङ्गाराद्याः, नव नक्षत्रवीथ्य इत्यादि / दशधा साधुधर्म:-क्षान्त्यादि, विष्णोरवताराः, दिग्पा(क्पा)लाः / दशविधं बलम्वज्र-काय-बुद्धि सन्तोष-स्थान-सुहृज्जन-शस्त्र-मन्त्र-देवता-राजबलैः / दशविधो जयः-ज्ञानसत्य-प्रताप-संग्राम-आचार-वाक्-निद्रा-आहार-इन्द्रिय-जयः, अजयश्चेति / दशविधः संग्रहःज्ञाने मित्रे पात्रे शौचे प्रवीणयोगे बले यज्ञे धर्मे संग्रहे गुणे चेति / दश दशा इत्यादि / 15 [एकादश] रुद्राः, एकादश गणधरा वीरस्य, एकादश गणाः– नन्द्याद्याः / अङ्गानि आचारादीनीत्यादि / [द्वादशारं चक्रम्, तद्यथा-] अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् / तथारिमित्रमित्रं च विजिगीषोः पुरः स्मृताः // 9 // पाणिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् / / आसारावनयोश्चैव विजिगीषोश्च पृष्ठतः // 10 // मध्यम उदासीनश्च-द्वादशारं चक्रम् / जैने द्वादश चक्रिणो भरताद्याः, तद्यथा-- भरतः, सगरो, मघवा, सनत्कुमारः, शान्तिः, कुन्थुः, अरः, सुभूमो, महापद्मो, हरिषेणः, जयनामा, ब्रह्मदत्तेति / सौधर्माद्याः कल्पा द्वादश / 25 त्रयोदश ताम्बूलगुणाः ताम्बूलं कटु-तिक्तमुष्ण-मधुरं क्षारं कषायान्वितं पित्तघ्नं कृमिनाशनं द्युतिकरं दुर्गन्धनिर्नाशनम् / 20