SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ रसभावनिरूपणपरिच्छेदः / [147 परोत्कर्षादेरसूयावज्ञादिकृत् / [ सू० 47 ] यथा-वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते / यानि त्रीणि(ण्य) [कुतो]मुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः // 54 // [ उत्तररामचरित अं० 5, श्लो० 35 ] व्याध्यभिघाताभ्यां मृतिहिक्काकार्यादिकृत् / [ सू० 51 ] यथा-तीर्थे तोयव्यतिकरभवे जनुकन्यासरय्वो देहत्यागादमरगणनालेख्यमासाद्य सद्यः / पूर्वाकाराधिकतर रुचा संगतः कान्तयासौ लीलागारेश्वरमत पुनर्नन्दनाभ्यन्तरेषु // 55 // [ रघुवंश स० 8, श्लो 95 ] स्तम्भस्वेदरोमाञ्चस्वरभेदकम्पवैवर्णाश्रुप्रलया अष्टौ सात्त्विकाः / [सू० 49] सीदत्यस्मिन् मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात् साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम् , तत्र भवाः सात्त्विकाः / भावा इति वर्तते / ते च प्राणभूमिप्रसृतरत्यादि- 15 संवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादिविलक्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्च गम्यमाना भावा भवन्ति / तथा हि पृथ्वीभागप्रधाने प्राणे संक्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वम् / जलभागप्रधाने तु बाष्पः / तेजसस्तु प्राणनैकट्याटुभयथा तीव्रातीवत्वेन प्राणानुग्रह इति द्विधा स्वेदो वैवयं च / तद्धेतुत्वाच्च तथाव्यवहारः / आकाशानुग्रहे गतचेतनत्वं प्रलयः / वायुस्वातन्त्र्ये तु 20 तस्य मन्दमध्योत्कृष्टावेशात् त्रेधा रोमाञ्च-वेपथु-स्वरभेदभावेन स्थितिरिति भरतविदः / बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः / ते चान्तरालिकान् सात्त्विकान् भावान् गमयन्तः परमार्थतो रतिनिर्वेदादिगमका इति स्थितम् / एवं च नव स्थायिनस्त्रयस्त्रिंशद् व्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद् भावाः। 1. अतः परं ग्रन्थस्य पत्रे नष्टे काव्यानुशासनादुद्धृतोऽयं सन्दर्भः /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy