SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 134] काव्यशिक्षा अत्र विभावानाम् यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं दूनाब्जिनीनालवत् / दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः // 2 // [भटृन्दुराजलोचने अभिनवभारत्यां च / ] अत्रानुभावानाम्दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किं चाञ्चितभूलतम् / मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि // 3 // [ अमरुशतक श्लो० 49 ] अत्रौत्सुक्य-व्रीडा-हर्ष-कोपासूया-प्रसादादीनां व्यभिचारिणाम् / तथाप्येतेषामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न व्यभिचारः / 15 रसभेदानाहशृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्साद्भुत-शान्ता नव रसाः। [सू० 2] तत्र कामस्य सकलजातिसुलभतया अत्यन्तपरिचितत्वेन [ सर्वान् प्रति हृद्यतेति ] पूर्व शृङ्गारः / तदनुगामी च हास्यः / तद्विपरीतः करुणः / ततस्तन्निमित्तमर्थप्रधानो रौद्रः / ततः कामार्थयोधर्ममूलत्वाद् धर्मप्रधानो वोरः / तस्य भीताभयप्रदानसारत्वाद20 नन्तरं भयानकः। तद्विभावसाधारण्यसंभावनात् ततो बीभत्सः / इतीयद्वी रेणाक्षिप्तम् / वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम् / ततस्त्रिवर्गात्मकप्रवृत्तिधर्मविपरीतनिवृत्तिधर्मात्मको मोक्षफल: शान्तः / एते नवैव रसाः / तेनार्द्रतास्थायिकः स्नेहो रस इत्यसत्, तस्यैतेष्वन्तर्भावात् / तथाहि-यूनो मित्रे स्नेहो रतौ, लक्ष्मणादे तरि स्नेहो धर्मवीरे, बालस्य मातापित्रादौ स्नेहो भये विश्रान्तः / एवं वृद्धस्य 25 पुत्रादावपि द्रष्टव्यम् /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy